SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७४ s 298 गण्डव्यूहसूत्रम्। [३४.०ये च कुलपुत्र अन्धकारतमिस्रायां रात्रावेकैकशः पूर्वादिदिग्विदिक्षु सर्वदिक्संमूढा भवन्ति, समेषु पृथिवीप्रदेशेषु विषमप्रपातसंज्ञिनः, उन्नतेष्ववनतसंज्ञिनः, अवनतेषून्नतसंज्ञिनः, तेषामहं दिग्मार्गदेशसंमूढानां नानाविधैरुपायैरवभासं कृत्वा निष्क्रमितुकामानां द्वारं संदर्शयामि । गन्तुकामानां मार्ग संदर्शयामि । तरितुकामानां तीर्थं संदर्शयामि । प्रवेष्टुकामानां 5 भवनं संदर्शयामि । विलोकयितुकामानां दिशः संदर्शयामि । निम्नोन्नते पृथिवीतलं संदर्श यामि । समविषमान् पृथिवीप्रदेशान् विविधानि च रूपगतानि संदर्शयामि । मार्गाक्रान्तानां ग्रामनगरनिगमराष्ट्रराजधानी संदर्शयामि । धर्मतृपार्तानामुत्ससरोह्रदतडागपुष्करिणीनदीवनोद्यानारामरमणीयानि संदर्शयामि । प्रियंविप्रयोगोत्कण्ठितानां मातापितृपुत्रदारमित्रामात्यज्ञातिसालोहितान् विविधानि च मनापानि रूपगतानि संदर्शयामि । एवं च चित्त10 मुत्पादयामि-यथाहमेपां सत्त्वानामन्धकारतमित्रायां रात्रौ तिमिरोपहतनेत्राणां दिक्संमूढानामालोकं करोमि, अवभासं जनयामि विविधरूपगतविज्ञप्तये, एवमेवाहं दीर्घसंसाररात्रावुपपन्नानां सर्वदिक्संमूढानामविद्यान्धकारप्राप्तानामज्ञानपटलावनद्धज्ञानचक्षुषां संज्ञाचित्तदृष्टिविपर्यस्तानाम् अनित्से नित्यसंज्ञिनां दुःखेऽदुःखसंज्ञिनां अनात्मनि आत्मसंझिनाम् अशुभे शुभसंज्ञिनां दृढात्मसत्त्वजीवपोषपुद्गलग्रहसंनिश्रितानां स्कन्धधात्वायतनसंनि15 श्रितानां हेतुफलसंमूढानामकुशलकर्मपथदिक्प्रतिपन्नानां प्राणातिपातिनामदत्तादायिनां काममिथ्याचारिणां मृषावादिनां पैशुन्यानां पारुषिकाणामसंभिन्नप्रलापिनामभिध्यालनां व्यापत्नचित्तानां मिथ्यादृष्टिगतानाममातृज्ञानामपितृज्ञानामश्रामण्यानामब्राह्मण्यानामनिन्धज्ञानामपुरुषज्ञानानामधर्मरागरक्तानां विषमलाभाभिभूतानां मिथ्यादृष्टिधर्मपरीतानां तथागता नभ्याख्यायिकानां धर्मचक्रान्तवादप्रतिपन्नानां मारध्वजधराणां बोधिसत्त्वघातिनां महायान20 विद्वेषिकाणां वोधिचित्तविच्छिन्दिकानां वोधिसत्त्वविवर्णकानां मातृघातद्रोहिणामनपकार वैरिणामार्यापवादकानामसत्पुरुषाधर्मसमाचारगोचराणां स्तौपिकसांघिकवस्तुद्रोहिणां मातापितृविप्रतिपन्नानामानन्तर्यकर्मकारिणां महाप्रपाताभिमुखानां सत्त्वानां महाप्रज्ञालोकेन अविद्यान्धकारं विधूय अनुत्तरायां सम्यक्सबोधौ समादाप्य समन्तभद्रेण महायानेन दशबलज्ञानभूमिमार्ग संदर्शयेयम् । तथागतभूमिमपि तथागतविषयमपि सर्वज्ञज्ञाननयसागरमपि 25 बुद्धज्ञानगोचरमपि बुद्धविषयमपि दशबलपरिनिष्पत्तिमपि बुद्धधारणीबलमपि सर्वबुद्धैकशरीरतामपि संदर्शयेयम् । संदर्य चैनान् सर्वबुद्धसमताज्ञाने प्रतिष्ठापयेयम् ॥ ग्लानानामप्यहं कुलपुत्र सत्त्वानां दीर्घव्याधिपरिखिन्नानां दुर्बलशरीराणां जीर्णानां वृद्धानां जराभिभूतानामनाथानां कृपणानां च दरिद्राणां विलयगतानां विदेशप्राप्तानां विदिक्प्रतिपन्नानां बन्धनगतानां कारणाप्राप्तानाम् अपराधिनां राजबन्धोत्सृष्टानां जीवितो30 परोधभयपरित्राणाय अवतिष्ठामि । साहं कुलपुत्र ग्लानानां सत्त्वानां सर्वोपायैाध्यपनयनाय प्रतिपद्यामि । जीर्णानां जराभिभूतानामुपस्थानपरिचर्योपकरणाविघातैः संग्रहं करोमि । अनाथानां सत्त्वाना सानाथ्यं करोमि । कृपणदरिद्राणां धनकनकस्कन्धेन संग्रहं करोमि
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy