________________
B 93
8230
-३४.२] ३४ वासन्ती।
१७५ विनिपातगतानां समानार्थतया संग्रहं करोमि । विदेशप्राप्तानां स्वदेशमुपनयामि । विदिक्प्रतिपन्नानां सम्यग्दिशमुपनयामि । बन्धनगतान् बन्धनेभ्यो विप्रमोक्षयामि । कारणाप्राप्तानां कारणादुःखेभ्यो विप्रमोक्षयामि । अपराधिनो राजवध्योत्सृष्टान् जीविताश्वासप्राप्तान् करोमि । एवं च चित्तमुत्पादयामि यथाहमेषां सत्त्वानां विविधभयोपद्रवपरित्राणे प्रतिशरणं भवामि, एवमहमेताननुत्तरेण धर्मसंग्रहेण संगृह्य सर्वक्लेशेभ्यः । परिमोचयेयम् । जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः समतिकामयेयम् । सर्वदुर्गतिविनिपातभयेभ्यः परिमोचयेयम् । कल्याणमित्रपरिग्रहे प्रतिष्ठापयेयम् । धर्मरत्नदानसंग्रहेण संगृह्णीयाम् । अनवद्ये कर्मणि नियोजयेयम् । तथागतशरीरविशुद्धये समादापयेयम् । अत्यन्ताजरामरणधातुप्रतिवेधे प्रतिष्ठापयेयम् ॥
मिथ्यामागार्गतिपन्नानामप्यहं कुलपुत्र सत्त्वानां विविधदृष्टिगतगहनाभिनिविष्टानां 10 मिथ्यासंकल्पगोचराणां विषमकायवाङ्मनस्कर्मसमुदाचारिणामसंवृतचारिणां नानाव्रततपःसंनिश्रितानामसम्यक्संबुद्धे सम्यक्संबुद्धसंज्ञिनां सम्यक्संबुद्धे च असम्यक्संबुद्धसंज्ञिनां शरीरातापनपरितापनप्रयुक्तानाम् उत्सप्तरोहृदतडागनदीपर्वतप्रस्रवणदिग्विदिक्प्रणामपरायणानां पापमित्रवशगतानां नानोपायमुखैः प्रतिशरणभूता भवामि ।तत एतान् पापकाद् दृष्टिगतात् सर्वदुर्गतिप्रपातपथाद्विनिवर्तयामि । लौकिकायां च सम्यग्दृष्टौ प्रतिष्ठाप्य दिव्यमानुषिकायां 15 संपत्तौ संनियोजयामि । एवं च चित्तमुत्पादयामि-यथाहमेतान् सत्त्वानेवरूपाद्विषमप्रतिपत्तिदुःखात्परिमोचयामि, एवमहं सर्वसत्त्वानार्थे लोकोत्तरे पारमितामार्गे प्रतिष्ठाप्य सर्वज्ञतायामवैवान् कृत्वा समन्तभद्रेण महाप्रणिधानेन सर्वज्ञतायामुपनयेयम् । न च बोधिसत्त्वभूमेरुच्चलेयमविनिवर्त्य सर्वसत्त्वधातुम् ॥
अथ खलु वासन्ती रात्रिदेवता तस्यां वेलायामेतमेव सर्वसत्त्वतमोविकिरणधर्मावभास- 20 जगद्विनयमुखं बोधिसत्त्वविमोक्षदिशं भूयस्या मात्रया संदर्शयमाना बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत
मोहअविद्यतमोविगमार्थ
धर्मप्रभावितसंजनयाय । कालमवेक्ष्य जगत्सुखनेता
एष विमोक्षनयो मम शान्तः ॥१॥ मैत्रि ममा विपुला सुविशुद्धा __ कल्प अनन्त सुभावित पूर्वे । अपाय फरित्व प्रभासमि लोकं
एत नयोत्तर सुधन सुधीरा ॥२॥ करणसमुद्र ममामित लोके
संभवु यत्र त्रियचजिनानाम् । १Bत्रियध्वगतानाम्,