________________
-३४.०] ३४ वासन्ती।
१७३ शीतोष्णदुःखसंस्पर्शायां व्यालमृगेन्द्रसाभिशङ्कायां वधकतस्करगणानुविचरितायां धरण्यां दिक्समूदानां सत्त्वानामादित्यरूपेण उद्गतचन्द्ररूपेण महोल्कापातरूपेण विद्युन्मालानिश्चारणरूपेण रत्नाभारूपेण ग्रहमण्डलरूपेण नक्षत्रज्योतिर्गणविमानप्रभारूपेण देवरूपेण बोधिसत्त्वरूपेण सत्त्वानां त्राणभूता भवामि । एवं च चित्तमुत्पादयामि-अनेन कुशलमूलेन सर्वसत्त्वानां त्राणं भवेयं सर्वक्लेशान्धकारविधमनतायै । पर्वतप्रपातगतानां सत्त्वानां । मरणभयभीतानां जीवितप्रतिलम्भाय यशस्कामतावशगतानां कीर्तिशब्दध्वजकामानां भोगार्थिकानां लोभाविष्टानामुपकरणपर्येष्ट्यभियुक्तानां लोकसंपत्त्यभिलाषपरमाणां पुत्रभार्यास्नेहविनिबद्धानां दृष्टिगतगहनप्रनष्टानां विविधदुःखभयोपद्रुतानां नानोपायमुखैः शरणभूता भवामि यदुत गिरिगुहासंस्थानाभिनिहारेण फलमूलभोजनाभिनिहारेण जलपथोदपानाभिनिहारेण शीतोष्णप्रतिपक्षाभिनिहारेण सम्यक्पथनिदर्शनेन कलविङ्करुत-10 निर्घोपेण मयूरराजनिकूजघोषेण औपधिज्वलनावभासरूपेण पर्वतदेवताप्रभारूपेण । गिरिगुहादरिविवरगतानां विविधदुःखोपद्रुतानां तिमिरान्धकारविनिवर्तनतायै समपृथिवीतलाभिनिर्हारेण शरणभूता भवामि । एवं च चित्तमुत्पादयामि-यथा अहमेषां पर्वतगतानां सत्त्वानामारक्षां करोमि, एवमहमेषां संसारपर्वतगिरिप्रपातपतितानां जरामरणग्रहाभिनिविष्टानां शरणभूता भवेयम् । वनगहनजालसंसक्तकानामप्यहं सत्त्वानां तमोन्धकारायां रात्रौ 15 B 92 विपुलविषयवृक्षविविधोपस्थानां विविधतृणोदककण्टकद्रुमलतोपरुद्धमार्गाणां नानाद्रुमलतावनगहनप्राप्तानां शार्दूलनदितनिर्घोषसंत्रस्तहृदयानां कार्यापरिपूरिसमाकुलचित्तानां विविधभयोपद्रवोपसृष्टानां वनगहननिःसरणदिशमप्रजानतां सम्यग्गमनपथसंदर्शयित्री भवामि । एवं च चित्तमुत्पादयामि-अनेन कुशलमूलेन विविधदृष्टिगहनगतान् सत्त्वांस्तृष्णाजालसंसक्तान् विचित्रसंसारदुःखभयोपद्रुतान् सर्वदुःखेभ्यः परिमोचयेयम् । अटवीकान्तारगतानामप्यहं 20 सत्त्वानामन्धकारप्राप्तानां नानोपायमुखैः सुखं संजनय्य मार्ग संदर्य एतानभयक्षेमे प्रतिष्ठाप्य एवं चित्तमुत्पादयामि-अनेन कुशलमूलेन संसाराटवीकान्तारप्राप्तान् सत्त्वान् दुर्गतिपथप्रतिपन्नान् सर्वदुःखेभ्यः परिमोच्य अत्यन्तयोगक्षेमे सर्वज्ञतामार्गे प्रतिष्ठापयेयम् । देशजनपदाविष्टानप्यहं कुलपुत्र सत्त्यानभिनिवेशाधिकारिकं दुःखं प्रत्यनुभवमानान् विविधैरुद्वध्यमानोपायैस्ततो जनपदाभिनिवेशादुच्चाल्य एवं चित्तमुत्पादयामि-अनेन 25 कुशलमलेन सर्वसत्त्वान् स्कन्धालयाभिनिवेशादुच्चाल्य अनालयसर्वज्ञज्ञाने प्रतिष्ठापयेयम् । ग्रामगतानप्यहं कुलपुत्र सत्त्वान् गृहनिकेतबन्धनबद्वानन्धकारतमिस्रायां रात्रौ विविधगृहापहुःखितान् नानोद्वेगमुखैरुद्वथ्य संजनितसंवेगचित्तान् धनदानेन संगृह्य सम्यक् प्रीणयित्वा अनिकेते धर्मे प्रतिष्ठाप्य एवं चित्तमुत्पादयामि-अनेन कुशलमूलेन सर्वसत्त्वान खायतनग्रामसंनिश्रितान् संसारगतिविषयगोचरादुच्चाल्य सर्वज्ञतागोचरे प्रतिष्ठापयेयम् ॥ ३०
8227
Som. रत्नाभारूपेण, २ S जलपथहदपानाभि. ३ S om. from देशजन up to प्रतिष्ठापयेयम्.