SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १७२ 8225 गण्डव्यूहसूत्रम् । [३४.०सोऽहं कल्याणमित्राधिष्ठानान् सर्वबुद्धगुणान् संपश्यन् कल्याणमित्राश्रितमात्मानं करोमि । दर्शय मे देवते सर्वज्ञतामार्ग यत्र प्रतिष्ठितो बोधिसत्त्वो निर्याति दशबलभूमौ ॥ एवमुक्ते वासन्ती रात्रिदेवता सुधनं श्रेष्ठिदारकमेवमाह-साधु साधु कुलपुत्र, यस्त्वमेवं कल्याणमित्रावेशाविष्टः कल्याणमित्रवचनानि शुश्रूषुः कल्याणमित्रानुशासन्यां प्रति5 पद्यसे । नियमेन त्वं कल्याणमित्रानुशासनी प्रतिपद्यमानः आसन्नीभविष्यस्यनुत्तरायां सम्यक्संबोधौ । अहं कुलपुत्र सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखस्य बोधिसत्त्वविमोक्षस्य लाभिनी । विषममतिषु सत्त्वेषु मैत्रचित्ता, अकुशलकर्मपथप्रतिपन्नेषु करुणचित्ता, कुशलकर्मपथप्रतिपन्नेषु मुदितचित्ता, समविषममतिपु सत्त्वेषपेक्षाचित्ता, संक्लिष्टेषु विशोधनचित्ता, विपमगतेषु सम्यक्प्रतिपन्नचित्ता, हीनाधिमुक्तिकेपु उदाराधिमुक्तिसंजननचित्ता, 10 हीनेन्द्रियेषु महावीर्यवेगविवर्धनचित्ता, संसाराभिरतेपु संसारगतिचक्रविनिवर्तनचित्ता, श्रावकप्रत्येकबुद्धयानाभिमुखेषु सत्त्वेषु सर्वज्ञतामार्गप्रतिष्ठापनचित्ता । एवं चित्तमनसिकारप्रयुक्ता खलु पुनरहं कुलपुत्र अनेन सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुवन वोधिसत्त्वविमोक्षेण समन्वागता ॥ ये सत्त्वा अन्धकारतमिस्रायां रात्रौ परिक्रान्तेषु मनुष्येषु भूतसंघानुचरितायां 15 तस्करगणसंकीर्णायां विपमचारित्रसत्त्वदिक्चरितायां कालाभ्रमेघजालसंछन्नायां धूमरजोमलसमाकुलायां विपमवातवृष्टिसंक्षोभितायां चन्द्रादित्यज्योतिर्गणरहितायां चक्षुष्कार्यापराक्रमायां रात्रौ सागरगता भवन्ति, स्थलगता वा पर्वतगता वा अटवीकान्तारगता वा बनान्तरगता वा देशान्तरगता वा सामान्तरगता वा दिगन्तरगता वा विदिगन्तरगता वा मार्गान्तरगता वा महासागरगता वा विपन्नयानपात्रा भवन्ति, स्थलगता वा विहन्यन्ते, पर्वतगता वा 20 महाप्रपातेषु प्रपतन्ति, महाटवीकान्तारगता वा अन्नपानविरहिता भवन्ति, वनगहनवेत्रजालैरवसत्तावा अनयव्यसनमापद्यन्ते, देशान्तरगता वा तस्करैर्हन्यन्ते, प्रामान्तरगता वा विपमचारित्रा विनश्यन्ति, दिगन्तरगता वा संमुह्यन्ति, विदिगन्तरगता वा विमुह्यन्ति, मार्गान्तरगता वा विलयमापद्यन्ते, तेषामहं कुलपुत्र सत्त्वानां नानोपायमुखैर्लयनभूता भवामि-यदुत सागरगतानां कालिकावातमेघविकिरणतायै कलुषोदकातिक्रमणतायै विषमवातमण्डलीविकिरणतायै 25 महोमिवेगव्युपशमनतायै आवर्तभयविमोचनतायै दिगुद्योतनतायै सम्यगुदकपथप्रतिपादनतायै तीरदर्शनतायै । रत्नद्वीपोपनयनाय मार्ग संदर्शयामि संग्राहकरूपेण सार्थवाहकरूपेण । कस्यचिद्राजरूपेण गजराजरूपेण कूर्मराजरूपेण असुरराजरूपेण गरुडराजरूपेण किन्नरराजरूपेण महोरगरागराजरूपेण सागरदेवतारूपेण कैवर्तरूपेण प्रतिशरणभूता भवामि । तच्च कुशलमूलमेवं परिणामयामि-सर्वसत्त्वानां प्रतिशरणभूता भवेयं सर्वदुःखस्कन्धविनिवर्तनतायै। 30 स्थलगतानां सत्त्वानां मोहान्धकारतमिस्रायां रात्रौ येणुकण्टकशर्करकठल्लाकीर्णायां घोरविषोरगसंकीर्णायां निम्नोन्नतविषमप्रचारायां रजोरेणुसमुद्धतायां विषमवातंवृष्टिसंक्षोभितायां - RS कुमारराजरूपेण. 8226
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy