________________
३४ वासन्ती। अथ खलु सुधनः श्रेष्ठिदारको येन कपिलवस्तु महानगरं तेनोपसंक्रान्तः तां स्थावरायाः पृथिवीदेवताया अनुशासनीमनुस्मरन् , तं दुर्योधनगर्भ बोधिसत्त्वविमोक्षमनुस्मरन् , तां वोधिसत्त्वसमाधिभावनां विपुलीकुर्वन् , तं बोधिसत्त्वधर्मनयमनुविचिन्तयन् , तं बोधिसत्त्वविमोक्षविक्रीडितं विचारयन् , तां बोधिसत्त्वविमोक्षज्ञानसूक्ष्मादि संव्यवलोकयन् , तं वोधिसत्त्व- ३ विमोक्षज्ञानसागरमवतरन् , तं बोधिसत्त्वविमोक्षज्ञानसंभेदमधिमुच्यमानः, तं वोधिसत्त्वविमोक्षानन्तज्ञानाभिसंस्कारमनुगच्छन् , तं बोधिसत्त्वविमोक्षज्ञानसमुद्रमवगाहमानः । स कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य पूर्वेण नगरद्वारेण प्रविश्य मध्ये नगरशृङ्गाटकस्य अस्थात् । अचिरास्तमिते सूर्ये सर्वबोधिसत्त्वानुशासनीषु प्रदक्षिणग्राही वासन्त्या रात्रिदेवताया दर्शनपरितृपितः कल्याणमित्रेषु बुद्धज्ञानप्रतिलम्भनिश्चितबुद्धिः समन्तज्ञानचक्षुर्विषयशरीराधिष्ठानः सर्वदिगभि-10 मुखेन कल्याणमित्रदर्शनचित्तेन उदाराधिमुक्तिज्ञानगर्भसंज्ञागतचेताः सर्वारम्बणप्रसृतज्ञानचक्षुः सर्वधर्मधातुनयज्ञानसागरप्रसरस्फरणानुगतेन समांधिचक्षुषा सर्वदिग्ज्ञेयसागरं व्यवलोकयन् , महाज्ञानचक्षुःप्रसृतावहिताशयोऽद्राक्षीद्वासन्ती रात्रिदेवतां कपिलवस्तुनो महानगरस्योर्चा गगनतले विचित्रानुपममणिकूटागारे सर्ववरगन्धपद्मगर्भमहारत्नसिंहासने निषण्णाम् , सुवर्णवर्णेन कायेनाभिनीलमृदुबहुकेशीमभिनीलनेत्रामभिरूपां प्रासादिकां दर्शनीयां सर्वाभरणा-15 लंकारविभूषितशरीरां रक्तबराम्वरनिवसनां चन्द्रमण्डलालंकृतब्रह्मजटामकुटधारिणी सर्वतारा. ग्रहनक्षत्रज्योतिर्गणप्रतिभाससंदर्शनशरीराम् । यावन्तश्च तया विपुले सत्त्वधातौ अक्षणापायदुर्गतिविनिपातेभ्यः सत्त्वाः परिमोचिताः, तानपि तस्या रोमविवरगतानद्राक्षीत् । यावन्तः स्वर्गलोके प्रतिष्ठापिताः, यावन्तः श्रावकप्रत्येकबोधौ सर्वज्ञतायां च परिपाचिताः, तानपि तस्याः सर्वरोमविवरगतानपश्यत् । यैनानोपायैः परिपाचिताः कायाभिनिहारै रूपाभिनिहरैर्वर्णाभि- 20 निहारैः, तौनपि तस्या रोमविवरगतानद्राक्षीत् । यै?षाभिनिहारैः खराङ्गाभिनिहीं रैविविधमन्त्रधर्मनयसप्रयोगैः परिपाचिताः, तानपि तस्या रोममुखेम्योऽनुरवमाणानश्रौषीत् । यैः कालाभिनिहारैः, यैर्यथाशयाधिमुक्तसत्त्वानुवर्तनैः,याभिर्बोधिसत्त्वचर्याभिर्बोधिसत्त्वविक्रमैर्बोधिसत्त्वसमाधिविकुर्वितमुखैर्बोधिसत्त्ववृषभिताभिर्बोधिसत्त्वविहौरोधिसत्त्वावलोकितैर्बोधिसत्त्वविलोकितैर्बोधिसत्त्वविकुर्वाभिर्वोधिसत्त्वमहापुरुषसिंहविजृम्भितैः, योधिसत्त्वविमोक्षविक्री- 25 डितैस्तया सत्त्वाः परिपाचिताः, तान्यपि तस्या रोमविवरगतानि प्रजानीते स्म ।
स तान् नानोपायसंप्रयुक्तान् धर्मनयसागरान् दृष्ट्वा श्रुत्वा च तुष्ट उदग्र आत्त- मनाः प्रमुदितः प्रीतिसौमनस्यजातो वासन्त्या रात्रिदेवतायाः सर्वशरीरेण प्रणिपत्य उत्थाय वासन्ती रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य वासन्त्या रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया खलु देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । 30
8224
191
१ Bom, from यैः upto तानपि.