SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७० गण्डव्यूहसूत्रम् । [३३.०धर्मावलोकावभासनयं सर्वसत्त्वपरिपाचनविनयज्ञाननयं सर्वबुद्धविकुर्वितसंदर्शननयं च अनुगच्छामि संधारयामि संप्रतीच्छामि ॥ एष च मे कुलपुत्र ज्ञानदुर्योधनगर्भो बोधिसत्त्वविमोक्षः सुमेरुपरमाणुरजःसमानां कल्पानां परेण परतरेण चन्द्रध्वजायां लोकधातौ सुनेत्रस्य तथागतस्यान्तिकात्प्रतिलब्धः 5 अवभासव्यूहे कल्पे । सा अहं कुलपुत्र इमं ज्ञानदुर्योधनगर्भ बोधिसत्त्वविमोक्षमायूहन्ती नियूहन्ती संवर्धयन्ती विपुलीकुर्वाणा अविरहिताभूवं तथागतदर्शनेन यावद् भद्रकल्पात् । अत्र च मया अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता अर्हन्तः सन्यक्संबुद्धा आरागिताः । सर्वेषां च मे तेषां तथागतानां बोधिमण्डोपसंक्रमणविकुर्वितं दृष्टम् । सर्वेषां च अहं तेपां तथागतानां कुशलमूलेषु साक्षीभूता । एतमहं कुलपुत्र ज्ञान10 दुर्योधनगर्भ बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वतथागतानुबद्धानां बोधिसत्त्वानां सर्वबुद्धकथानुधारिणां सर्वतथागतज्ञानगहनप्रविष्टानां चित्तक्षणधर्मधातुस्फरणानुजवानां तथागतसमताशरीराणां सर्वबुद्धाशयविमलगर्भाणां सदाभिनिर्दृतसर्वबुद्धोत्पादानामसंभिन्नसर्वबुद्धकायदूतानां चर्या ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, इदमिहैव जम्बुद्वीपे मगधविषये कपिलवस्तु नाम नगरम् । तत्र 15 वासन्ती नाम रात्रिदेवता प्रतिवसति । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्ध स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य स्थावरायाः पृथिवीदेवताया अन्तिकाव्सक्रान्तः ॥ ३१॥ 8223 - -
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy