SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ३३ स्थावरा। अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण येन मगधविषये बोधिमण्डे स्थावरा पृथ्वीदेवता 221 तेनोपसंक्रान्तः । दशपृथिवीदेवताशतसहस्राणि अन्योन्यमेवं वाचमुदीरयामासुः अयं स आगच्छति, यः सर्वसत्त्वानां प्रतिशरणभूतो भविष्यति । अयं स तथागतगर्भ आगच्छति, यः सर्वसत्त्वानामविद्याण्डकोशं निर्भेत्स्यति । अयं स धर्मराजकुलोदित आगच्छति, योऽसङ्गवर- 5 विमलधर्मराजपट्टमावन्धिष्यति । अयं स ज्ञाननारायणवज्रप्रहरणशूर आगच्छति, यः सर्वपरप्रवादिचक्रं प्रमर्दिष्यति । अथ तानि स्थावराप्रमुखानि दशपृथिवीदेवताशतसहस्राणि महापृथिवीचालं कृत्वा गम्भीरजलधरनिर्नादं जनयित्वा सर्व त्रिसाहस्रं लोकधातुमुदारेणावभासेनावभास्य सर्वरत्नाभरणालंकारप्रतिमण्डितशरीराणि विद्युल्लताकलापा इव गगनतले लम्बमानाः, प्ररोहद्भिः सर्ववृक्षाङ्कुरैः, प्रफुल्लद्भिः सर्वपुष्पवृक्षः, प्रवर्षद्भिः सर्वनदीस्रोतोभिः, 10 उन्नमद्भिः सर्वोत्ससरोहदतडागैः, प्रवर्पद्भिर्महागन्धोदकवः, प्रवायद्भिः कुसुमाघोत्करप्रवाहिभिर्महावातैः, प्रवादयद्भिः तूर्यकोटीनियुतशतसहस्रः, प्रसरद्भिः दिव्यविमानाभरणमकुटैः, प्रणदद्भिः गोवृषगजव्याघ्रमृगेन्द्रैः, प्रगर्जद्भिः देवासुरोरगभूताधिपतिभिः, संघट्टमानैर्महाशैलेन्द्रैः उत्प्लवद्भिः, निधिचयकोटीशतसहस्रैः उन्नमद्भिः, धरणीतलादभ्युद्गतानि ॥ अथ स्थावरा पृथिवीदेवता सुधनं श्रेष्ठिदारकमेवमाह-खागतं ते कुलपुत्र । अयं स 15 पृथिवीप्रदेशो यत्र ते स्थित्वा कुशलमूलान्यवरोपितानि यत्राहं प्रत्यक्षा । क्रिमिच्छसि तद्विपाकफलैकदेशं द्रष्टुम् ? अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्ध स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य स्थावरायाः पृथिवीदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-इच्छाम्यायें ॥ अथ खलु स्थावरा पृथिवीदेवता पादतलाभ्यां महापृथिवीं पराहत्य असंख्येयमणि- 20 रत्ननिधानकोटीशतसहस्रप्रतिमण्डितामुपदर्य एवमाह-इमानि कुलपुत्र मणिरत्ननिधानकोटीनियुतशतसहस्राणि तवानुगामीनि, तव पुरोजवानि, तव यथेच्छोपभोग्यानि, तव पुण्यविपाकनिजातानि, तव पुण्यबलरक्षितानि । तेभ्यस्त्वं गृहीत्वा यत्कार्य तत्कुरुष्व । अपि त्वहं कुलपुत्र ज्ञानदुर्योधनगर्भस्य बोधिसत्त्वविमोक्षस्य लामिनी । सा अहमेतेन वोधिसत्त्वविमोक्षेण समन्वागता दीपंकरतथागतमुपादाय बोधिसत्त्वस्य नित्यानुबद्धा सतत- 25 B 90 मारक्षाप्रतिपन्ना । ततः प्रभृति अहं कुलपुत्र बोधिसत्वस्य चित्तचरितं व्यवचारयामि, ज्ञानविषयमवगाहयामि, सर्वप्रणिधानमण्डलमवतरामि, बोधिसत्त्वचर्याविशुद्धिमनुगच्छामि, सर्वसमाधिनयमनुसरामि, सर्वबोधिसत्त्वाभिज्ञाचित्तविपुलतां स्फरामि । सर्वबोधिसत्त्वबलाधिपतेयतां सर्वबोधिसत्त्वासंहार्यतां सर्वक्षेत्रजालस्फरणतां सर्वतथागतव्याकरणसंप्रतीच्छनतां सर्वकालामिसंबोधिसंदर्शनतां सर्वधर्मचक्रप्रवर्तननयं सर्वसूत्रान्तसंप्रभाषणधर्ममेघनयं महा- 30 6922 Som. अयं. गण्ड, २२
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy