________________
S220
१६८ गण्डव्यूहसूत्रम् ।
_ [३२.०असंख्ययानि च कन्याकोटीशतसहस्राण्युपदर्य सुधनं श्रेष्ठिदारकमेतदवोचत्-इतः कुलपुत्र गृहीत्वा दानानि देहि, पुण्यानि कुरु, तथागतान् पूजय, सत्त्वान् दानेन संग्रहवस्तुना संगृह्य त्यागपारमितायां नियोजय, दानेन लोकं शिक्षय । दुष्करपरित्यागतां प्रदर्शय । यथैवाहं कुलपुत्र तवोपकरणविधिमुपसंहरामि, ,एवमपरिमाणानां सत्त्वानां दान5 चेतनानिरुद्धानां त्यागवासितां संततिं करोमि । बुद्धधर्मसंघेषु वोधिसत्त्वकल्याणमित्रेषु च कुशलमूलान्यवरोपयित्वा अनुत्तरायां सम्यक्सबोधौ समादापयामि । अपि तु खलु पुनरहं कुलपुत्र कामरतिप्रमत्तानां सत्त्वानां विषयपरिभोगपरिगृद्धानां तान् विपयानशुभानधितिष्ठामि । क्रोधाविष्टानां मानमददर्पगर्वितानां विग्रहवैनयिकानां रौद्रराक्षसविकृतभयानन्तशरीरान् मांसरुधिरभक्षानात्मभावानुपदर्य तं सर्व स्तम्भसंरम्भमुपदर्शयामि । कुसीदन्यस्तप्रयोगान् 10 सत्त्वानन्युदकराजचौरोपसर्गभयसंदर्शनेनोद्वेज्य वीर्यारम्भे नियोजयामि । एवं तैस्तैरुपायैः
सर्वाकुशलचर्याभ्यो विनिवर्त्य सर्वकुशलधर्मप्रतिपत्तौ संनियोजयामि । सर्वपारमिताविपक्षनिर्धाताय सर्वपारमितासंभारोपचयाय सर्वावरणपर्वतप्रपातपथसमतिक्रमणाय अनावरणधर्मावताराय च । एतमहं कुलपुत्र मेघजालं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यमिन्द्रकल्पानां बोधिसत्त्वानां क्लेशासुरप्रमर्दकानां वारिकल्पानां सर्वजगदुःखाग्निस्कन्धनिर्वाप15 यितृणां तेजःस्कन्धकल्पानां सर्वजगतृष्णासलिलसंशोषणकराणां वायुकल्पानां सर्वग्राहाभिनिवेशपर्वतविकिरणानां वज्रकल्पानां दृढात्मसंज्ञाशैलनिर्दारणानां चाँ ज्ञातुं गुणान् वा वक्तुम् ।।
गच्छ कुलपुत्र, इयमिहैव जम्बुद्वीपे मगधविषये बोधिमण्डे स्थावरा नाम पृथ्वीदेवता प्रतिवसति । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् ,
कथं प्रतिपत्तव्यम् ॥ 20 अथ खलु सुधनः श्रेष्ठिदारको महादेवस्य पादौ शिरसाभिवन्ध महादेवं देवमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य महादेवस्य देवस्यान्तिकात्प्रक्रान्तः ॥ ३० ॥
-
18 'परिशचाना. २S उद्देश्य. ३ B कल्याणामां.