________________
३२ महादेवः ।
अथ खलु सुधनः श्रेष्ठिदारको विपुलबोधिसत्त्वचर्यानुगतचित्तोऽनन्यगामिनो बोधिसत्त्वस्य ज्ञानगोचरं स्पृहयमाणरूपो महाभिज्ञाभिनिर्हारविषयगुणविशेषदर्शी दृढवीर्यसंनाहप्रहर्षप्राप्तोऽचिन्त्यविमोक्षविक्रीडितानुगताशयः बोधिसत्त्वगुणभूमौ प्रतिपद्यमानः समाधिभूमिं विचारयमाणो धारणीभूमौ प्रतिष्ठमानः प्रणिधानभूमिमवतरन् प्रतिसंविद्भूमावनुशिक्षमाणो 6 बलभूमिं निष्पादयमानोऽनुपूर्वेण येन द्वारवती नगरी तेनोपसंक्रम्य महादेवं पर्यपृच्छत् । तस्य महाजनकाय आरोचयामास - एष कुलपुत्र महादेवो नगरशृङ्गाटके देवागारे औदारिकेणात्मभावेन सत्त्वानां धर्मं देशयति । अथ खलु सुधनः श्रेष्ठिदारको येन महादेवस्तेनोपसंक्रम्य महादेवस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्व - 10 चर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्य :-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खलु महादेवो देवश्चतुर्दिशं चतुरः पाणीन् प्रसार्य चतुभ्य महासमुद्रेभ्यः परमशीघ्रजवेन वार्यानीय स्वमुखं प्रक्षाल्य सुधनं श्रेष्ठिदारकं सुवर्णपुष्पैरभ्यवकीर्य एवमाह - 15 सुदुर्लभदर्शना हि कुलपुत्र बोधिसत्त्वाः, परमदुर्लभश्रवणा आश्चर्यप्रादुर्भावा लोकेऽग्रत्वात् परमपुरुषपुण्डरीका जगत्रातारः, प्रतिशरणभूता लोकस्य प्रतिष्ठानभूता जगतः, महावभासकराः सत्त्वानाम्, क्षेमपथदर्शकाः संमूढमार्गाणाम्, नायकभूता धर्मनयावतरणतायै, परिणायकभूताः सर्वज्ञतापुरोपनयनतायै । तस्य मम कुलपुत्र एवं भवति - दुर्दृष्टिघातनं
मधे बोधिसत्त्वानां न निर्मलचित्तानां खकायप्रतिभासं दर्शयति । विशुद्धकायकर्मणा - 20 मभिमुखा भवन्ति । वचनदोषविवर्जितानां सरखत्या लोकमवक्रामयन्ति । विशुद्धाशयानां सर्वकालमभिमुखास्तिष्ठन्ति । अहं कुलपुत्र मेघजालस्य बोधिसत्त्वविमोक्षस्य लाभी । आहएतस्य आर्य मेघजालस्य बोधिसत्त्वविमोक्षस्य विषयः ?
अथ खलु महादेवो देवः सुधनस्य श्रेष्ठदारकस्य पुरतो महापर्वतमात्रं सुवर्णराशिमुपदर्श्य रूप्यराशिं वैडूर्यराशिं स्फटिकराशिं मुसारगल्वराशिं अश्मगर्भराशि ज्योतिरसमणिरत्नराशिं विमलगर्भमणिरत्नराशिं वैरोचनमणिरत्नराशिं समन्तदिगभिमुखमणिरत्नराशिं चूडामणिरत्नमकुटराशिं विचित्रमणिरत्नराशि केयूरराशि कुण्डलविभूषणराशिं वलयराशिं मेखल - राशि नूपुरराशिं विविधमणिरत्नराशि सर्वाङ्गप्रत्यङ्गविभूषणराशि चिन्ताराजमणिरत्नराशि सर्वपुष्पाणि सर्वगन्धान् सर्वधूपान् सर्वमाल्यानि सर्वविलेपनानि सर्वचूर्णानि सर्ववस्त्राणि सर्वच्छत्राणि सर्वध्वजान् सर्वपताकाः सर्वत्र्याणि सर्वतालावचरान् सर्वकामविषयान् । 30
१ B 'संनाहाप हर्षाविशेषप्राप्तो..
25
S 219
B 89