SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १६६ 888 गण्डव्यूहसूत्रम् । [ ३१.०ऊर्ध्वाया दिशो निर्यामि । एतमहं कुलपुत्र समन्तमुखनिर्जवनं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वत्रानुगतानां बोधिसत्त्वानां समतादिगभिमुखानामसंभिन्नज्ञानविषयाणां सर्वधर्मधातुसुविभक्तशरीराणां यथाशयाधिमुक्तसर्वसत्त्वानुविचारिणां सर्वक्षेत्रस्फरणकायानां सर्वधर्मयथानुगतानां त्र्यध्वपथसमतानुप्राप्तानां सर्वदिक्पथसमतानुसरणानां सर्वजगत्पथ5 विरोचनानां तथागतपथाविकल्पानामसङ्गसर्वपथानुगतानामनालयपथप्रतिष्ठितानां चयां ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, इहैव दक्षिणापथे द्वारवती नाम नगरी । तत्र महादेवो देवः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ कथं-बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकोऽनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्ध अनन्यगामिनं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अनन्यगामिनो बोधिसत्त्वस्यान्तिकात् प्रक्रान्तः ॥ २९ ॥ 10 -00%800--
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy