________________
३१ अनन्यगामी। अथ खलु सुधनः श्रेष्ठिदारकोऽवलोकितेश्वरस्य बोधिसत्त्वस्य ज्ञानगाथालब्धचित्तोऽनलोकितेश्वरस्य बोधिसत्त्वस्यावितृप्तो दर्शनेन वाणीमप्रतिवहन् येन अनन्यगामी बोधिसत्त्वस्तेनोपसंक्रम्य अनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं । बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्य:-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
सोऽवोचत्-अहं कुलपुत्र समन्तमुखनिर्जवनस्य बोधिसत्त्वविमोक्षस्य लाभी। आहकतमस्य त्वया आर्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः 10 प्रतिलब्धः? कियद्दरे वा स इतो लोकधातुः ? कियच्चिरोच्चलितो वासि ततो लोकधातोः ? आह-दुर्विज्ञेयमेतत्कुलपुत्र स्थानं सदेवमानुषासुरेण लोकेन सश्रमणब्राह्मणिकया 5 AM प्रजया-यदुत बोधिसत्त्वपराक्रमी बोधिसत्त्ववीर्यानिवर्त्यता बोधिसत्त्ववीर्यसंहार्यता । नेदं 888 कुलपुत्र शक्यं कल्याणमित्रापरिगृहीतैर्बुद्धासमन्वाहतैरनुपचितकुशलमूलैरपरिशुद्धाशयैरप्रतिलब्धबोधिसत्त्वेन्द्रियैः प्रज्ञाचक्षुविरहितैः श्रोतुं वा संधारयितुं वा अधिमोक्तुं वा अवतरितुं 15 वा । आह-वदतु मे आर्यः । अधिमोक्ष्यामि श्रद्धास्यामि बुद्धानुभावेन कल्याणमित्रपरिग्रहेण च । सोऽवोचत्-अहं कुलपुत्र पूर्वस्यां दिशि श्रीगर्भवल्या लोकधातोरागच्छामि समन्तश्रीसंभवस्य तथागतस्य बुद्धक्षेत्रात् । तस्य मे कुलपुत्र समन्तश्रीसंभवस्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः । ततश्च मे कुलपुत्र श्रीगर्भवल्या लोकधातोरुच्चलितस्य अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः कल्पाः क्षीणाः । 20 एकैकेन च चित्तोत्पादेन अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् पदव्यवहारान् व्यतिक्रमामि । एकैकेन च पदव्यवहारेण अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रमामि । सर्वाणि च तानि बुद्धक्षेत्राणि अविरहितानि तथागतैः । अवतरामि सर्वांश्च तान् बुद्धान् भगवतः । अनुत्तरया मनोमय्या अनभिसंस्कारधर्मधातुमुद्रामुद्रितया तथागतानुज्ञातया सर्वबोधिसत्त्वप्रहर्षसंजनन्या तथागतं पूजयामि । यावतश्च 25 तासु लोकधातुषु सत्त्वसमुद्रान् पश्यामि, सर्वेषां च तेषां चित्तसागरानवतरामि, सर्वेषां च तेषामिन्द्रियचक्रं परिज्ञाय यथाशयाधिमुक्तितो रूपकायं संदर्शयामि । धर्मघोषमुदीरयामि । प्रभामण्डलमुत्सृजामि । विविधोपकरणसंपदमुपसंहरामि । खकायं चैषामधितिष्ठामि, यदुत परिपाकविनयप्रयोगाप्रतिप्रस्रब्धये । यथा च पूर्वस्या दिशो निर्यामि, एवं दक्षिणायाः पश्चिमायाः उत्तराया उत्तरपूर्वायाः पूर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध 30
-
१ B om. बुद्धक्षेत्राणि.