SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ S 82 १६४ 5 गण्डव्यूहसूत्रम् । अष्टापदाकृतु दशद्दिशि लोकधातौ कल्याणमित्र समुपासित सूधनेन । न च तृप्तु धर्म श्रुणमाणु जिनौरसानां कस्मान्न प्रीति भवति श्रुणमान धर्मम् ॥ २२ ॥ तेन खलु पुनः समयेन अनन्यगामी नाम बोधिसत्त्वः पूर्वस्यां दिशि गगनतलेनागत्य सहाया लोकधातोश्चक्रवालशिखरे प्रत्यष्ठात् । समनन्तरप्रतिष्ठापितौ च अनन्यगामिना बोधिसत्त्वेन सहाया लोकधातोश्चक्रवालशिखरे पादौ, तत्क्षणादियं सहालोकधातुः षड्डिकारं प्राकम्पत, अनेकरत्नमयी च संस्थिताभूत् । तथारूपा च अनन्यगामिना बोधिसत्त्वेन कायात् प्रभा प्रमुक्ता, यया प्रभया सर्वचन्द्रसूर्यप्रभा पर्यादत्ताः सर्वदेवनागयक्षगन्धर्वा10 सुरगरुड किन्नरमहोरगशऋब्रह्मलोकपालानामग्निमणिज्योतिषां च प्रभा जिह्मीकृताः, सर्वमहानरकाश्चावभासिताः, सर्वतिर्यग्योनियमलोकगतिगहनं चावभासितम्, सर्वापायदुःखानि च तदनन्तरं प्रशान्तानि । सर्वसत्त्वानां च क्केशा न बाधन्ते । विविधशोकशल्यदुःखानि च प्रस्रब्धानि । सर्वं चेदं बुद्धक्षेत्रं सर्वरत्नमेधैरभिप्रवर्षन् सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाव्यूहसर्वपूजामेधैरभिप्रवर्षन् भगवन्तमुपसंक्रान्तः । से चास्याश्रयः सर्व15 सत्त्वभवनप्रतिभासप्राप्तो यथाशयसत्त्वसंतोषणाभिमुखः । तस्मिंश्व पोतलके पर्वतेऽवलोकिते - श्वरस्य बोधिसत्त्वस्यान्तिकमुपसंक्रान्तः संदृश्यते स्म ॥ [ ३०.२२ अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत् - पश्यसि त्वं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमिह पर्षन्मण्डले संप्राप्तम् ? आह— पश्यामि आर्य । आह-- एतं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमुपसंक्रम्य परिपृच्छ— कथं बोधिसत्त्वेन बोधि20 सत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकोऽवलोकितेश्वरस्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अवलोकितेश्वरस्य बोधिसत्त्वस्यान्तिकात्प्रक्रान्तः ॥ २८ ॥ १ Bom. सर्वमहानरकाश्चावभासिताः २ Bom. स चास्यमुपसंक्रान्तः
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy