________________
5 269
३० अवलोकितेश्वरः। अथ खलु सुधनः श्रेष्टिदारको वेष्टिलस्य गृहपतेरनुशासनीमनुविचिन्तयन् , तं बोधिसत्त्वाधिमुक्तिकोशं निगमयन् , तद्वोधिसत्त्वानुस्मृतिवलमनुस्मरन् तं बुद्धनेत्रपरंपरावलं संधार- यन् , तं बुद्धानन्तर्यानुसंधिमनुगच्छन् , तंबुद्धनामश्रोत्रानुगममनुस्मरन् . तं बुद्धधर्मदेशनानयमनुलोमयन् , तं बुद्धधर्मसमुदागमव्यूहनवतरन् , तद्रुद्धाभिसंबोधिविनर्दितमधिमुच्यमानः, 5 तदचिन्त्यं तथागतकर्माभिमुखीकुर्वन् अनुपूर्वेण वेन पोतलकः पर्वतस्तेनोपसंक्रम्य पोतलकं पर्वतमभिरुह्य अवलोकितेश्वरं बोधिसत्त्वं परिमार्गन् परिगवेघमाणोऽद्राक्षीदवलोकितेश्वर बोधिसत्त्वं पश्चिमदिक्पर्वतोत्सङ्गे उत्ससरःप्रत्रवणोपशोभिते नीलतरुणकुण्डलकजातमृर्दुशादलतले महावन विवरे वज्ररत्नशिलायां पर्यकं बद्धा उपविष्टं नानारतशिलातलनिषण्णापरिमाणबोधिसत्त्वगणपरिवृतं धर्म देशयमानं सर्वजगत्संग्रहविषयं महामंत्रीमहाकरुणामुखो- 10 द्योतं नाम धर्मपर्यायं संप्रकाशयन्तम् । दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रहर्षितविकसितानिमिषनयनः कृताञ्जलिपुटः कल्याणमित्रप्रसादवेगानुगताविक्षिप्तचेताः कल्याणमित्रेषु सकलबुद्धदर्शनसंज्ञी कल्याणमित्रप्रभवसर्वधर्ममेवसंप्रतीच्छनसंज्ञी कल्याणमित्राधीनसर्वगुणप्रतिपत्तिसंज्ञी कल्याणमित्रसमवधानदुर्लभसंज्ञी कल्याणमित्रोद्भवदशबलज्ञानरत्नप्रतिलाभसंज्ञी कल्याणमित्रसमुद्भवाक्षयज्ञानालोकसंही कल्याणमित्राश्रय-15 संवर्धितपुण्यप्रवालसंज्ञी कल्याणमित्रसंप्रकाशितसर्वज्ञताद्वारसंज्ञी कल्याणमित्रोदेशितमहाज्ञानसागरावतारसंज्ञी कल्याणमित्रसंजनितसर्वज्ञतासंभारसमुदयसंज्ञी यन अवलोकितेश्वरो बोधिसत्त्वस्तेनाभिजगाम ||
___ अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं दूरत एव आगच्छन्तमवलोक्य आमन्त्रयामास-एहि । खागतं ते अनुपमोदाराचिन्त्यमहायानसंप्रस्थिता जातमूलक- 20 विविधदुःखोपद्रुताप्रतिशरणसर्वजगत्परित्राणाशया सर्वलोकातिक्रान्तानुपमाप्रमेया सर्वबुद्धधर्माध्यक्षताभिलाषिन् महाकरुणावेगाविष्ट सर्वजगत्परित्राणमते समन्तभद्रदर्शनचर्याभिमुख महाप्रणिधानमण्डलपरिशोधनचित्त सर्वबुद्धधर्ममेवसंधारणाभिलपिनकुशलमूलोपचयातृप्ताशयकल्याणमित्रानुशासनीसम्यक्प्रवृत्तमञ्जुश्रीज्ञानसागरसंभूत गुणकमलाकर वुद्धाधिष्ठानप्रतिलाभाभिमुख समाध्यालोकवेगप्रतिलब्ध सर्वबुद्धधर्ममेघसंधारणाभिलषितचित्त 99 बुद्धदर्शनप्रीतिप्रसादवेगप्रहर्षितमानस अचिन्त्याप्रमाणसुचरितवेगाभिष्यन्दितचेतः गुणप्रतिपत्तिवेगविशुद्धपुण्यज्ञानकोश खयमभिज्ञामुखसर्वज्ञज्ञानमात्रवेगपरसंदर्शाभिप्राय महाकरुणावेगविपन्नमूलतथागतज्ञानालोकवेग संधारणमते ॥
अथ खलु सुधनः श्रेष्ठिदारको येन अवलोकितेश्वरो बोधिसत्त्वस्तेनोपसंक्रम्य अवलोकितेश्वरस्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्र- 30
8210
-
.
१
मृदुमार्दव.