________________
B80
S 211
१६०
गण्डव्यूहसूत्रम् ।
[ ३००
कृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तनुन्पादितम् । न च जानानि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु आर्यः कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
:
अथ ख्लु अवलोकितेश्वरो बोधिसत्त्वो जाम्बूनदसुवर्णवर्णं विचित्राप्रमेयप्रभाजालबाहव्य॒वप्रञ्चनं दक्षिगं बाहुं प्रतार्य लक्षणानुव्यञ्जनविसृतविविधविमलामितकायचित्तप्रह्लाइसंजननरस्निप्रतानसंकुसुमितं पाणि सुधनस्य श्रेष्ठदारकस्य मूर्ध्नि प्रतिष्ठाप्य एव - माह - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पादितम् । अहं कुलपुत्र नहाकरुगानुखाविन्वं नान वोधिसत्त्वचर्यामुखं प्रजानामि । एतच्च कुलपुत्र 10 महाकरुणानुखाविलम्वं बोधिसत्त्वचर्यामुखं सर्वजगद संभिन्नसत्त्वपरिपाकविनयनप्रवृत्तं समन्तनुखस्रोतविज्ञप्तिसत्त्वसंग्रहविनयपर्युपस्थानम् । सोऽहं कुलपुत्र महाकरुणामुखाविलम्वबोधिसत्त्वचर्यानुखे प्रतिष्ठितः सर्वतथागतानां च पादमूलान विचलामि, सर्वसत्त्वकार्येषु च अभिनुखस्तिष्ठामि । दानेनापि सत्त्वान् संगृह्णामि । प्रियवादितया अर्थक्रियया समानार्थतयापि सत्त्वान् संगृह्णामि । रूपकायविदर्शनेनापि सत्त्वान् परिपाचयामि । अचिन्त्यवर्णसंस्थानरूप15 दर्शनविशुद्ध्या रश्मिजालोत्सर्गेणापि सत्त्वान् प्रह्लाद्य परिपाचयामि । यथाशयघोषोदाहारेणापि यथाभिमतेर्यापथसंदर्शनेनापि विविधाधिमुक्तिसभागधर्मदेशनयापि नानारूपविकुर्वितेनापि कुशलधर्मोपचयप्रवृत्तसत्त्वचित्तसंचोदनयापि आशयानुरूपविचित्रापरिमाणनिर्माणसंदर्शनेनापि नानाजात्युपपन्नसत्त्वसभागरूपसंदर्शनेनापि एकावा सनिवासेनापि सत्त्वान् संगृह्णामि परिपाचयामि । तेन मया कुलपुत्र इदं महाकरुणामुखाविलम्बं बोधिसत्त्वचर्यामुखं परिशोधयता 20 सर्वजगत्प्रतिशरणप्रणिधिरुत्पादितः, यदुत सर्वसत्त्वप्रपातभयविगमाय सर्वसत्त्व संत्रासकभयप्रशमनाय सर्वसत्त्वसंमोहभयविनिवर्तनाय सर्वसत्त्वबन्धनभयसमुच्छेदाय सर्वसत्त्वजीवितोपरोधोपक्रमभयव्यावर्तनाय सर्वसत्त्वोपकरणवैकल्यभयापनयनाय सर्वसत्त्वजीविकाभयव्युपशमनाय । सर्वसत्त्वाश्लोकभयसमतिक्रमणाय सर्वसत्त्वसांसारिकभयोपशमनाय सर्वसत्त्वपर्षच्छारद्यभयविगमाय सर्वसत्त्वमरणभयव्यतिक्रमाय सर्वसत्त्व दुर्गतिभयविनिवर्तनाय सर्वसत्त्व25 तमोन्धकारविपमगत्यप्रत्युदावयवभासकरणाय सर्वसत्त्वविषभागसमवधानभयात्यन्तविगमाय सर्वसत्त्वप्रियविप्रयोगभयनिरोधाय सर्वसत्त्वाप्रियसंवासभयापनयनाय सर्वसत्त्वकाय - परिपीडाभयविसंयोगाय सर्वसत्त्ववित्तपरिपीडनभयनिर्मोक्षणाय सर्वसत्त्वदुःखदौर्मनस्यो - पायाससमतिक्रमाय सर्वजगत्प्रतिशरणप्रणिव्यभिनिर्धारः कृतः । अनुस्मृतिमुखं च मे सर्वलोकेऽधिष्ठितं सर्वसत्त्वभयव्युपशमनाय । खनामचक्रं मे सर्वलोकेऽभिविज्ञप्तं सर्वसत्त्वभय30 विगमाय । सर्वजगदनन्ताकृतिभेदशमथो मे कायेऽधिष्ठितो यथाकालजगत्प्रतिविज्ञप्तये । सोऽहं कुलपुत्र, अनेनोपायेन सत्त्वान् सर्वभयेभ्यः परिमोच्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य अविवर्त्मान् करोमि बुद्धधर्मप्रतिलाभाय । एतमहं कुलपुत्र महाकरुणामुखा -
5