SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ B 35 3 203 गण्डव्यूहसूत्रम् । [२९.१त्याउनभारपरंपगमवतरामि । याक्सुविभक्तां संभिन्नां चैषां धर्मदेशनां स्मरामि, संधारयामि, स्मुला चोदृह्णामि । गला प्रविचिनोमि । मत्या प्रविभजामि । बुद्ध्या अनुगच्छामि । प्रज्ञया प्रकाशयामि । यथा चेह लोकधालुवंशे पूर्वान्तापरान्तपर्यापन्नानां वुद्धपरंपरां पश्यामि, अवतरानि, तथा दशसु दिक्षु अनभिलाप्यानभिलाप्यवुद्धक्षेत्रपरमाणुरजःसमेषु अतीतानागतेषु 5 लोकधातुवंशषु सर्वतथागतपरंपरानवतरामि । तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरानि । तां च बुद्धपरंपरावतारमव्यवच्छिन्नां निष्ठामवतरामि । अतुलं श्रद्धागमनीयं बोधिसत्त्ववीर्यव्यवसायगम्यं बोधिसत्त्ववीर्यवेगविवर्धनमसंहार्य सर्वलोकेन सर्वश्रावकप्रत्येकवुद्धन्तद्विषयानवक्रान्तश्च बोधिसत्त्वैः प्रत्युत्पन्नानां च दशसु दिक्षु सर्वलोकधातुपु वैरोचन प्रमुखानां तथागतानां परंपरामवतरानि । एकचित्तक्षणे बुद्धशतं पश्यामि अवतरामि । तदन10 न्तरण चित्तेन बुद्धसहननवतरामि । तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यवुद्ध क्षेत्रपरमागुग्ज:समान्तथागतानवतरामि । यं च यदा तथागतं द्रष्टुमाकाङ्क्षाभि, तं तदा पश्यानि । यच्च तंबुद्धर्भगवद्भिर्भापितं भाषन्ते भाषिप्यन्ते, तत्सर्वं शृणोमि । श्रुत्वा चोद्गृह्णामि । स्मृला मुंधारयामि । गत्या प्रविचिनोमि । मत्या प्रविभजामि । वुद्ध्या अनुगच्छामि । प्रज्ञया प्रकाशयामि । एतमहं कुलपुत्र अपरिनिर्वाणकोटीगतं वोधिसत्त्वविमोक्षं जानामि । किं मया 15 शक्यं त्र्यवेकक्षणज्ञानप्रतिलब्धानां बोधिसत्त्वानां क्षणकोटीसमाधिव्यूहविहारिणां तथागतदिवसावक्रान्तानां सर्वकल्पविकल्पसमतानुगतानां सर्ववुद्धसमतासमाध्यनुबद्धानामात्मसत्त्वबुद्धाद्वयविहारिणां प्रकृतिप्रभास्वरधर्मव्यूहमण्डलानां ज्ञानयन्त्रलोकजालस्फरणानां सर्वतथागतधर्ममुद्राविकोपितविहारिणां सर्वधर्मधातुविज्ञपनज्ञानविषयाणां सर्वतथागतधर्मदेशनाविज्ञप्तिज्ञानविषयाणां चयाँ ज्ञातुम् , गुणान् वा वक्तुम् ॥ 20 गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे पोतलको नाम पर्वतः । तत्र अवलोकितेश्वरो नाम बोधिसत्त्वः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । तस्यां वेलायामिमे गाथे अभाषत गच्छो हि सूधन शिरीजलराजमध्ये गिरिराजपोतलकि शोभनि शूरभागे । रत्नामयं तरुवरं कुसुमाभिकीर्ण___ मुद्यानपुष्किरिणिप्रस्रवणोपपेतम् ॥ १॥ तस्मिंश्च पर्वतवरे विहराति धीरो ___ अवलोकितेश्वर विदू जगतो हिताय । तं गच्छ पृच्छ सुधना गुण नायकानां देशिष्यते विपुलशोभि नयप्रवेशम् ॥२॥ अथ खल सुधनः श्रेष्ठिदारको वेष्ठिलस्य गृहपतेः पादौ शिरसाभिवन्ध वेष्ठिलं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य वेष्ठिलस्य गृहपतेरन्तिकात् प्रक्रान्तः ॥२७॥ 18 संसार.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy