________________
313
B71
१३४ गाडगृहमूत्रम्।
[२२.०बैका वृहिता अवम् । तया में गत्यां प्रशान्तायां पिहितेषु राजपुरद्वारेषु, सुप्तयोर्मातापित्रोः, संप्रमुख नरनारीगणेनु, व्युपशान्तेषु तूर्यतालावचरनिर्घोपेषु, शयितेषु सभागचरितेषु पञ्चकन्याशतेषु, शयनतलगतया गगनतलगतां ज्योतिर्गणवती रजनी प्रेक्षन्त्या उपर्यन्तरिक्ष स भगवान् प्रलम्बबाहुम्तथागतोऽर्हन् सम्यक्मंबुद्धः सुमेरुरिव अचलेन्द्रानेकदेवनागयक्षगन्धर्वा। सुरगमडकिन्नग्महोरगपरिवारोऽचिन्त्यासंख्येयबोधिसत्त्वगणपरिवृतः सर्वदिगप्रतिहतरश्मिजालम्फरमकायो दृष्टः । तस्य च तथागतन्य सर्वरोमविवरेभ्यस्तथारूपो गन्धः प्रवाति, येनास्मि प्रहादिनकायविनामहर्षितमानसा। शयनतलादुत्थाय दशनग्यकृतकरपुटाञ्जलिर्धरणितलप्रतिष्ठिता तं भगवन्तं लम्बबाहुं तथागतमहन्तं सम्यक्संबुद्धं नमस्कृत्वा मूर्जी नमस्य अवलोकयमाना
पर्यन्तं नाधिगच्छामि । वामदक्षिणतः प्रमाणं नोमि । लक्षणानुव्यञ्जनसंपदमनुविचिन्तयमाना 10 तृति नाप्नोमि । तस्या मम कुलपुत्र एतदभवत्-कीदृशं कर्म कृत्या इयमीदृशी कायसंपत्
प्रतिलभ्यते ? लक्षणानुव्यञ्जनसंपदा जायते? प्रभाब्यूहसंपत्संभवति ? परिवारसंपदभिनिर्वर्तते ? मनोमयभवनपरिभोगसंपत्यादुर्भवति? पुण्यसंपत्पद्यते ? ज्ञानसंपद्विशुद्ध्यते ? अचिन्त्यसमाधिविकुर्वितसंपत्समुदागच्छति ? धारणीसंपत्परिनिप्पद्यते ? प्रतिभानसंपद्वशीभवति ?
___ अथ खलु कुलपुत्र स भगवान् प्रलम्बबाहुस्तथागतो ममाध्यांशयं विदित्वा एवमाह15 दुर्योधनचित्तं ते दारिके उत्पादयितव्यं सर्वक्लेशनिर्घाताय । अपराजितचित्तं सर्वाभिनिवेशनिर्वेदाय । असंकुचितचित्तं गम्भीरधर्मनयानुगमाय । अक्षोभ्यचित्तं विषयाशयसत्त्वसागरावर्तप्रपातेपु । असंमूढचित्तं सर्वभवगत्युपपत्त्यायतनेषु । अवितृप्तचित्तं सर्वबुद्धदर्शनाभिलाषाप्रतिप्रनब्धये । असंतुष्टिचित्तं सर्वतथागतधर्ममेघसंप्रत्येषणाय । निध्यप्तिचित्तं सर्व
वुद्धधर्मनयालोकानुगमाय । संधारणाचित्तं सर्वतथागतधर्मचक्राणाम् । असंप्रमोहचित्तमन्तशः 20 संकेतकृते, किमुत तथागतवदनविनिर्गतज्ञाने । विभाजनचित्तं च ते दारिके उत्पादयितव्यं यथाशयसर्वसत्त्वधर्मरत्नसंविभजनाय ॥
साहं कुलपुत्र तस्य भगवतः प्रलम्बबाहोस्तथागस्याहतः सम्यक्संबुद्धस्यान्तिकादिमानि एवंरूपाणि धर्मनयानुशासनीमुखानि श्रुत्वा सर्वज्ञज्ञानमभिकाङ्क्षमाणा दशबल
भावमभिप्रार्थयमाना बुद्धसरखतीमभिलषन्ती बुद्धप्रभाज्यूह परिशोधयितुकामा बुद्धशरीर25 संपदं परिनिष्पादयितुकामा बुद्धलक्षणानुव्यञ्जनविशुद्धिमभिकाङ्क्षमाणा बुद्धपर्षन्मण्डल
संपदमभिप्रार्थयमाना बुद्धक्षेत्रविशुद्धिमभिलषन्ती बुद्धेर्यापथसंपदमभिकाङ्क्षमाणा बुद्धायु:प्रमाणसंपदमभिनन्दन्ती सर्वक्लेशसर्वश्रावकप्रत्येकबुद्धाभेद्यचित्तमुत्पादितवती दुर्योधनवज्रमिव सर्वपर्वतायुधबलैः । नाभिजानामि कुलपुत्र तत उपादाय एतेन चित्तोत्पादेन जम्बुद्वीपः
परमाणुरजःसमैः कल्पैरपि कामान् परिभोक्तुम् , कः पुनर्वादो द्वयद्वयसमापत्त्या । नाभि30 जानामि कुलपुत्र तत उपादाय एकप्रतिघचित्तमुत्पादयितुं खवान्धवेषु, प्रागेवानपराधिषु तदन्येषु सत्त्वेषु । नाभिजानामि तत उपादाय एकचित्तोत्पादमध्यात्मदृष्टिसहगत
१B द्वीन्द्रियसमापत्त्या.
S 118
--
-