SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ - १७.० ] १७ विद्वान् । १११ कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो वोधिसत्त्वानामववादानुशासनीं ददातीति । तद्ददतु मे आर्य :- कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यन् कथं शिक्षमाणा बोधिसत्त्वाः प्रतिशरणभूता भवन्ति सर्वसत्त्वानाम् ॥ एवमुक्ते विद्वान् गृहपतिः सुधनं श्रेष्ठिदारकमेवमाह - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । दुर्लभाः कुलपुत्र ते सत्त्वाः, येऽनुत्तरायां 5 सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यायां परिमार्गयमाणा न तृप्यन्ते कल्याणनित्रदर्शनेन । न खिद्यन्ते कल्याणमित्रोपसंक्रमणेषु । न परितप्यन्ते कल्याणमित्रोपचारेषु । न दौर्मनस्यमुत्पादयन्ति कल्याणमित्रदुरासदतया । न निवर्तन्ते कल्याणमित्रगवेपणतया । न व्यावर्तन्ते कल्याणमित्रतृष्णालालसहृदयत्वात् । न प्रत्युदावर्तन्ते कल्याणमित्रनुखावलोकेन । न संसीदन्ति कल्याणमित्रानुशासनीपथेषु । न विद्यन्ते कल्याणमित्रोपस्थानपरिचर्या 110 पश्यसि त्वं कुलपुत्र, इमं मम परिवारन् ? आह - पश्यामि आर्य | आह- सर्व एते कुलपुत्र मया अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पादिताः । मयैते जनितान्तथागतकुले । मयैते पोषिताः पारमितोपसंहारैः । मयैते संचरिताः सर्वशुधः । मयैते विवर्धिता दशसु तथागतवलेषु । मयैते उच्चालिता लोकवंशात् । मयैते प्रतिष्ठापितास्तथागतवंशे । नयैते विवर्तिता लोके गतिचक्रात् । मयैते आवर्तिता धर्मचक्रप्रवर्तनतायान् । मयैते सत्त्वाः तारितायच्या- 15 पायगतिप्रपातात् । मयैते प्रतिष्ठापिता धर्मसमतानुगमेन । एवं हि कुलपुत्र बोधिसत्वात्रातारो भवन्ति सर्वसत्त्वानाम् । अहं कुलपुत्र मनः कोशसंभवानां पुण्यानां लाभी | सोऽहमन्नार्थिभ्योऽन्नं ददामि, पानार्थिभ्यः पानम्, रसाप्रार्थिन्यो रसानम्, खाद्यार्थिभ्यः खाद्यम्, भोज्यार्थिभ्यो भोज्यम् लेह्यार्थिभ्यो लेह्यन्, चोप्यार्थिभ्यश्चोप्यन् वार्थिभ्यो वस्त्रम्, पुष्पार्थिभ्यः पुष्पम्, मायार्थिभ्यो माल्यम्, गन्धार्थिन्यो गन्धम्, धूयार्थिकेन्यो धूपन्, 20 विलेपनार्थिभ्यो विलेपनम्, चूर्णार्थिभ्यचूर्णम्, आभरणविभूषणार्थिभ्य आभरणविभूषणानि, रत्नार्थिभ्यो रत्नानि, सुवर्णार्थिभ्यः सुवर्णम्, रुप्यार्थिभ्यो रूप्यम्, मुक्तार्थिभ्यो नुताम् प्रतिश्रयार्थिभ्यः प्रतिश्रयम्, आसनार्थिभ्य आसनन्, शयनार्थिम्यः शयनम्, ग्लानप्रत्ययभैषज्यपरिष्कारार्थिभ्यो ग्लानप्रत्ययभैषज्यपरिष्कारान्, यानार्थिभ्यो यानम्, वाहनार्थिभ्यो बाहनम्, हस्त्यश्वरथगोगर्दभमहिपैडकार्थिभ्यो हस्त्यश्वरथगोगर्दभमहिने डकान्, छत्रध्वजपताकार्थिम्य- 25 श्छत्रध्वजपताकाः, दासीदासार्थिभ्यो दासीदासान् माणवपरिवारार्थिभ्यो मानवपरिवारम्, स्र्यर्थिभ्यः स्त्रियः, कुमार्यर्थिभ्यः कुमारीम्, मकुटचूडामण्यर्थिभ्यो मकुटचूडामणीन् सचर्म - चूडामण्यर्थिभ्यो सचर्मचूडामणीन्, नीलविमलकेशमण्डलार्थिभ्यो नीलविमलकेशमण्डलम्, यावद्विविधसर्वोपकरणार्थिभ्यो विविधसर्वोपकरणानि प्रयच्छामि । आगमय कुलपुत्र मुहूर्त यावत्प्रत्यक्षो भविष्यसि । समनन्तरभाषितायां चास्यां वाचि विदुषा गृहपतिना, अथ तावदेव 30 अपरिमाणाः सत्त्वा विदुषा गृहपतिना पूर्वप्रणिधानाभिनिमन्त्रिताः संनिपतिताः । नानादिग्भ्यो नानाजनपदप्रदेशेम्पो नानानगरेभ्यो नानानिगमेभ्यो नानापट्टनेभ्यो नानाकर्वटेम्यो नाना B 58 S 145
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy