SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ S143 8144 १७ विद्वान् । J S अथ खलु सुधनः श्रेष्ठिदारकोऽयव्यूह पुण्यकोशविमोक्षावभासप्रतिलब्धः तं पुण्यसानरमतुविचिन्तयन्, तत्पुण्यनगननवलोकयन् तं पुण्यराशिमाददन्, तं पुण्यपर्वतमभिरोहन् तं पुण्यनिचयं संग्रहन् तं पुण्योधनवगाह्यमानः, तत्पुण्यतीर्थमवतरन्, तं पुण्यमण्डलं परिशोधयन् तं पुण्यनिधिं संपश्यन् तं पुण्यनयमनुस्मरन्, तां पुण्यनेत्रीं 5 समन्वाहरन् तं पुण्यवंशं परिशोधयन्, अनुपूर्वेण येन महासंभवं नगरं तेनोपसंक्रम्य विद्वांसं गृहपतिं परिमार्गति, परिगपति, व्यवलोकयति कल्याणमित्राण्यभिलषन् । कल्याणमित्रदर्शनवासितया संतत्या, कल्याणमित्राधिष्ठानेन आशयेन, कल्याणमित्रानुगतेन प्रयोगेन, कल्याणमित्रोपचारापरिखिन्नेन वीर्येण, कल्याणमित्राधीनैः सर्वकुशलमूलैः, कल्याणमित्रनियतैः सर्वपुण्यसंभारैः कल्याणमित्रविवर्धितैरुपायकौशल्यचरितैः, अपरप्रत्ययेन कल्याणमित्रो - 10 पचारकौशल्येन, विवर्धमानैः सर्वकुशलमूलैः, विशुद्ध्यता वोधिसत्त्वाध्याशयेन, संवर्धमान - र्वोधिसत्त्वेन्द्रियैः, परिपाच्यमानैः सर्वकुशलमूलैः, संवर्धमानैर्महाप्रणिधानाभिनिहारैः, विपुलीभवन्त्या महाकरुणया, सर्वज्ञताया आसन्नीभूतमात्मानं संपश्यन् समन्तभद्रबोधिसत्त्ववर्यायाः, सर्वबुद्धेभ्यो धर्मावभासं संप्रतीच्छन्, विवर्धमानेन दशतथागतबलावभासेन विद्वांसं गृहपतिं परिगवेषमाणो अद्राक्षीन्मध्ये नगरस्य शृङ्गाटके सैप्तरत्नव्योमकोपर्यसंख्येयरत्नमये 15 विविधवञेन्द्रनीलरचितमणिरत्नपादे काञ्चनसूत्रज्वालश्वेते विमलगर्भमणिरत्नगर्भे पञ्चरत्नशतसमलंकृतविम्वे विचित्रदिव्यद्रूष्यप्रज्ञप्ते उच्छ्रितदिव्यपट्टध्वजपताके अनेकरत्नजालसंछन्ने महारत्नचितानवितते महासुवर्णरत्नपुप्पदामाभिप्रलम्विते भद्रासने निषण्णम्, विमलवैडूर्यदण्डेन जाम्बूनदकनकच्छत्रेण प्रियता हंसराजनिर्मलचामरसंवीज्यमानम् विविधगन्धोपचारप्रधूपितं वामदक्षिणेन पञ्चभिस्तूर्यशतैः प्रवाद्यद्भिः दिव्यातिरेकमधुरनिर्घोषैर्महासंभवं नगरं पर्यापन्नैः 20 सत्त्वप्रीतिसंजनार्थं दिव्यकुसुममेघैः प्रवर्षद्भिर्दिव्यमानुष्यरूपसमतिक्रान्तैः परिनिष्पन्नबोधिसत्त्वाशयैः दिव्यातिरेकविभूषणसमलंकृतैः किंकरोपचरणप्रतिकारिभिः पूर्वकुशलमूलसभागचरितैर्दशभिः प्राणिसहस्रैः परिवृतम् । दृष्ट्वा च सुधनः श्रेष्ठिदारको येन विद्वान् गृहपतिस्तेनोपजगाम । उपेत्य विदुषो गृहपतेः पादौ शिरसाभिवन्द्य विद्वांसं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहं आर्य सर्वसत्त्वानामर्थाय 25 अनुत्तरां सम्यक्संबोधिं संप्रस्थितो यदुत सर्वसत्त्वदुः खन्युपशमाय सर्वसत्त्वात्यन्तसुखप्रतिष्ठापनाय सर्वसत्त्वसंसारसागराभ्युद्धारणतायै सर्वसत्त्वधर्मरत्नद्वीपसंप्रापणतायै सर्वसत्त्वतृष्णास्त्रेहोच्छोषणतायै सर्वसत्त्वानां महाकरुणास्नेहसंजननतायै सर्वसत्त्वानां कामरतितृष्णाविनिवर्तनतायै सर्वसत्त्वानां बुद्धज्ञानतृष्णोत्पादनतायै सर्वसत्त्वानां संसाराटवीकान्तार समतिक्रमणतायै सर्वसत्त्वानां बुद्धगुणधर्मारामरतिसंजननतायै सर्वसत्त्वानां त्रैधातुकपुरान्निष्क्रमणतायै सर्व30 सत्त्वानां सर्वज्ञतापुरोपनयतायै । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वत्चर्यायां शिक्षितव्यम्, १ B सर्वरन
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy