________________
१०९
B57
१६ प्रभूता। अथ खलु प्रभूतोपासिका सुधनं श्रेष्ठिदारकमेवमाह-एतनहं कुलपुत्र अक्षयव्यूहपुण्यकोशं बोधिसत्त्वविमोक्षं जानामि । किं नया शक्यनक्षययुयान बोधिसत्त्वानं नहापुण्यसागराक्षयतया, गगनकल्पानां सुसंभूतविपुलपुण्योपचयतया, चिन्ताजनगिन- कल्पानां सर्वजगत्प्रणिधिपूरणतया, महापुण्यचक्रवालानां सर्वजग कुशलनूलारक्षणतया, महापुण्यमेघानां सर्वजगद्रत्नपाण्यभिप्रवर्पणतया, महापुण्यकोशाध्यक्षाणां धर्मनगरद्वारविव- । रणतया, महापुण्यप्रदीपानां सर्वजगद्दारिद्र्यान्धकारविधमनतया चयाँ ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, इहैव दक्षिणापथे महासंभवं नाम नगरन् । तत्र विद्वानाम गृहपतिः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं वोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
10 अथ खलु सुधनः श्रेष्ठिदारकः प्रभूताया उपासिकायाः पादौ शिरसाभिवन्ध प्रभूतामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रभूताया उपासिकाया दर्शनावितृप्तोऽन्तिकात्प्रक्रान्तः ॥ १४ ॥
+