SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 8142 8142 १०८ गण्डव्यूहसूत्रम् । [ १६.० आर्ये । आह - एतत्प्रमुखानि कुलपुत्र स्त्रीणां दशासंख्येयशतसहस्राणि मम सभागचरितानि एकप्रणिधानानि एक कुशलमूलानि रकनिर्याणव्यूहानि एकाधिमुक्तिपथविशुद्धानि मम सभागस्मृतिविशुद्धानि सभागगतिविशुद्धानि सभागवुद्ध्यप्रमाणानि सभागेन्द्रियप्रतिलब्धानि सभागचित्तस्फरणानि सभागगोचरविपयाणि सभागधर्मनयावतीर्णानि सभागार्थविनिश्चि5 तानि सभागधर्नीर्थोद्योतनानि सभागरूपविशुद्धानि सभागवलाप्रमाणानि, सभागवैर्यापराजितानि सभागधर्मकृतघोपाणि, सभागस्वरविशुद्धानि, सर्वव्यवहारेषु सभागगुणविशुद्धानि, अप्रमाणगुणवर्गतया सभागकर्मविशुद्धानि, अनवद्यकर्मविपाकविशुद्ध्या सभागमहामैत्रीस्फरणानि, सर्वजगत्परित्राणतया सभागमहाकरुणा स्करणानि, सर्वजगत्परिपाचनाखेदतया सभागकायकर्मविशुद्धानि, यथाशय सर्वसत्त्व संतोपणकायसंदर्शनतया सभागवाक्कर्म10 विशुद्धानि धर्मधातुनिरुक्तिव्यवहारेषु, सभागोपसंक्रमणानि सर्वबुद्धपर्षन्मण्डलेषु, सभागनिर्जवनानि सर्वबुद्धक्षेत्रेषु, सर्वबुद्धपूजोपस्थानतायै सभागप्रत्यक्षज्ञानानि सर्वधर्मनयानुगमेषु, सभागचर्याविशुद्धानि सर्वबोधित्सत्त्वभूमिप्रतिलाभेषु । एतानि कुलपुत्र दशस्त्रीसहस्राणि एकक्षणेन दश दिशः स्फरन्ति, यदुतैकजातिप्रतिबद्धान् बोधिसत्त्वान् भोजनेन प्रतिपादनतायै अस्या एव पिठरिकाया भोजनमादाय । दश दिशः स्फरन्ति अस्या एव 15 पिठरिकाया भोजनमादाय । दश दिशः स्फरन्ति चरमभविकान् सर्वश्रावकप्रत्येकबुद्धयानिकान् पिण्डपातेन प्रतिपादनतायै । स्फरित्वा सर्वप्रेतगणान् भोजनेन संतर्पयन्ति । सा अहं कुलपुत्र अस्या एव पिठरिकाया देवान् देवभोजनेन संतर्पयामि । नागान्नागभोजनेन, यक्षान् यक्षभोजनेन, गन्धर्वान् गन्धर्वभोजनेन, असुरानसुरभोजनेन, गरुडान् गरुडभोजनेन, किन्नरान् किन्नरभोजनेन, महोरगान् महोरगभोजनेन, मनुष्यान् मनुष्यभोजनेन, 20 अमनुष्यानमनुष्यभोजनेन संतर्पयामि । आगमयस्व कुलपुत्र मुहूर्त यावत्प्रत्यक्षो भविष्यसि । समनन्तरभाषिता चेयं वाक् प्रभूतयोपासिकया, अथ तावदेव अपरिमाणाः सत्त्वाः पूर्वेण गृहद्वारेण प्रविशन्ति स्म यदुत प्रभूतयोपासिकया पूर्वप्रणिधाननिमन्त्रिताः । एवं दक्षिणेन पश्चिमेणोत्तरेण गृहद्वारेण अपरिमाणाः सत्त्वाः प्रविशन्ति स्म यदुत प्रभूतयोपासिकया पूर्वप्रणिधाननिमन्त्रिताः । तान् प्रभूतोपासिका तेष्वासनेषु निषद्य यथाभिप्रेतैर्भोजनैर्नानासूपै25 र्नानारसैर्नानावर्णैर्नानागन्धैः संतर्पयति, संप्रवारयति, संतोषयति, संप्रहर्षयति, संप्रमोद यति परिप्रीणयति, आत्तमनस्कान् करोति । यथा नानाभोजनैः, एवं नानापानविधिभिः, नानारसायैः, नानासनैः, नानाशयनैः, नानायानैर्नानावस्त्रैः नानापुष्पैर्नानामात्यैः नानागन्धैर्नानाधूपैः नानाविलेपनैर्नानाचूर्णैः नानाभरणैः नानारत्नरयैः नानाछत्रैर्नानाध्वजैर्नानापताकाभिः नानाविधोपकरणविशेषैः संतर्पयति, यावदात्तमनस्कान् करोति । देवान् 30 देवभोजनेन संतर्पयति । नागान् यक्षान् गन्धर्वानसुरान् गरुडान् किन्नरान् महोरगान् मनुष्यानमनुष्यान् तत्तदेव भोजनेन संतर्पयति यावदात्तमनस्कान् करोति । न च सा पिठरिका हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति न निष्ठां न पर्यन्तं न परिनिष्ठां गच्छति ॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy