________________
8148
११२ गण्डव्यूहसूत्रम् ।
[१७.०सत्त्वजातिभ्यो नानासत्त्वकुलेभ्यो नानासत्त्वकुलविमात्रताभ्यो नानागतिपरिवर्तेभ्यो नानाप्रतिष्ठानसंज्ञानगतिभ्यो नानायतनविशुद्धा नानाहारार्थिनो नानाहाराभिलाषिणो नानाशया शुच्यन्नपानकामा मांसार्थिनो विविधभोजनविमात्रताभिकाङ्क्षिणो विविधगतिविशेषोपपस्यायतनस्थिताः यदुत मनुष्यप्वोदनकुमाषरूपमत्स्यमांसादिविविधकवलीकाहारार्थिनः । यथा 5 मनुष्येषु, एवं सर्वगतिविचारयु नानाभोजनपानार्थिन उपसंक्रान्ताः, यदुत बोधिसत्त्वानुभावेन असङ्गत्यागदुन्दुभिनि?पेण बोधिसत्त्वप्रणिधिनिमन्त्रिताः । तमुपसंक्रम्य विद्वांसं गृहपतिं याचन्तेऽवलोकयन्ति निरीक्षन्ते विज्ञापयन्ति ॥
__ अथ खलु विद्वान् गृहपतिस्तान् याचनकान् संनिपतितान् विदित्वा मुहूर्तमनुविचिन्त्य गगनतलमवलोकयति स्म । तस्य ततो गगनतलाद्विविधा भोजनपानविधयो 10 नानारसा नानावर्णा नानागन्धा अवलम्व्य हस्ततले प्रत्यतिष्ठन् । स तान्यादाय तान्
यथासंनिपतितान् याचनकान् नानाधिमुक्तान् यथाभिप्रेतैर्भोजनपानविधिभिः सर्वोपकरणविशेषैः संतर्पयति संप्रवारयति संतोषयति संप्रहर्षयति संप्रमोदयति परिप्रीणयति,
आत्तमनस्कान् करोति । उत्तरे वै नानामिषेण संतl तेभ्यो धर्म देशयेत् । यदुत विपुलज्ञानसंभारोपचयहेतुं परिदीपयन्, सर्वदारिद्यासंभवहेतुं परिदीपयन्, महाभोगता15 समुदागमसंभवहेतुं परिदीपयन् , धर्मज्ञाननयप्रतिलामसंभवहेतुं परिदीपयन् , विपुलपुण्य
संभारोपचयहेतुं परिदीपयन् , प्रीतिभक्षभोजनप्रतिलाभसंभवहेतुं परिदीपयन् , लक्षणानुव्यञ्जनोपचितशरीरप्रतिलाभसंभवहेतुं परिदीपयन् , अनवमृधवलपरिशुद्धिप्रतिलाभसंभवहेतुं परिदीपयन् , अनन्तराहारपरिज्ञाप्रतिलाभसंभवहेतुं परिदीपयन् , सर्वमारबलप्रमर्दनापर्यादत्तपुण्यवलप्रतिलाभसंभवहेतुं परिदीपयन् धर्म देशयेत् । सोऽनार्थिन उपसंक्रान्तान् 20 गगनतलानानान्नविधीन् गृहीत्वा संतl तेभ्य आयुर्वर्णबलमुखप्रतिभानं संपश्यन् प्रतिलाभाय धर्म देशयेत् । स पानार्थिन उपसंक्रान्तान्नानाविधैः पानेरुदारैः कल्याणैरनवद्यैर्मन:संग्रहर्षकैः संतर्प्य तेभ्यः संसारतृष्णारतिविनिवर्तनतायै बुद्धधर्मरतितृष्णासंजननतायै धर्म देशयेत् । रसरसाप्रार्थिन उपसंक्रान्तान्नानाविधरसरसागैर्मधुराम्ललवणकटुतिक्तकषायैः संतर्पयामास । उत्तरे चैषां रसरसाग्रतामहापुरुषलक्षणप्रतिलाभाय धर्म देशयेत् । स 25 यानार्थिनो नानादिक्स्रोतोभ्यागतानानाविधयानदानैः संगृह्य तेभ्यो महायानाधिरोहणतायै
धर्म देशयेत् । स नानादिगागतान् वस्त्रार्थिन उपसंक्रान्तान् विदित्वा मुहूर्त विचिन्त्य गगनतलमुल्लोकयति स्म । तस्य ततो गगनतलान्नानारङ्गान्यनेकवर्णानि विशुद्धानि नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकवर्णानि विविधानि वस्त्राण्यवलम्ब्य हस्ततले प्रत्यतिष्ठन् ।
स तैस्तान् याचनकान् प्रतिपाद्य तेभ्योऽनुत्तरतथागतढ्यपत्राप्यसुवर्णवर्णच्छविताप्रतिलाभ30 विशुद्धये धर्म देशयेत् । प्रत्येकमेव सर्वोपकरणविधिभिर्यथागतान् याचनकान् प्रतिपाद्य
तेभ्यो यथार्ह धर्म देशयेत् ॥
8
1 B संतl.