________________
-१४..] १४ सुदर्शनः।
१०१ समुद्रा अभिमुखा आवर्तन्ते सर्वचर्यामण्डलपरिशोधनतायै । इन्द्रबलोपमबोविसत्वचर्यापरिपूरिप्रणिध्यभिनिहारवलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसमाधिसागरा अनिमुखा आवर्तन्ते सर्वसमाधिमण्डलपरिशोधनतायै । एकसमाधिमुखैः सर्वसनाविनुसनवसरणप्रणिध्यभिनिरिवलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्येन्द्रियसमुद्रा अभिनुखमावर्तन्ने सर्वेन्द्रियचक्रकालचक्रानुवर्तनतायै। स्मृतिकोटीन्द्रियप्रतिलाभप्रणिध्यभिनिहारवलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यकालचक्राण्यभिमुखमावर्तन्ते सर्वकालधर्मचक्रप्रवर्तनतायै । अनिष्ठसत्त्वनिष्ठाप्रणिध्यभिनिहारवलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यसर्वत्र्यध्वसागरा अभिमुखमावर्तन्ते सर्वलोकधातुषु त्र्यध्वव्यवस्थानतया अनुगमज्ञानालोकप्रणिध्यमिनिरिवलेन । एतमहं कुलपुत्र अनिशान्तज्ञानप्रदीपं बोधिसत्वविमोक्षं जानामि । किं मया शक्यं वज्रकल्पाशयानां बोधिसत्वानां सर्वतथागतकुलकुलीनताभिजातानामनुपरुद्धजीविते- 10 न्द्रियाणामनिशान्तज्ञानप्रदीपानामनाच्छेचाभेद्यकायानां मायागतरूपानिवृत्तानां प्रत्ययधर्मसमाङ्गप्रत्यङ्गशरीराणां यथाशयजगद्विज्ञप्तिकायानां सर्वजगदुपमरूपकायवर्णसंस्थानारोहपरिणाहसंदर्शकायानामग्निज्वालाविषशस्त्रानुपघातशरीराणां वज्रदृढचत्रवालानवमृद्यात्मभावानां सर्वमारपरप्रवादिबलाबलकरणानां जाम्बूनदकन कपर्वतसंनिभानां सर्वजगदभ्युद्गतशरीराणां सर्वजगद्विज्ञप्त्याश्रयाणां समन्तमुखविज्ञप्तिश्रवगानां सर्वजगदुल्लोकितमुखानां सर्वधर्म-15 जलधराकारभूतानां समन्तदिग्विरोचनानां सर्वावरगपर्वतविकिरणत्वादप्रतिकूलदर्शनानां सर्वाकुशलमूलात्यन्तसमुोटितत्वात्परमशूरदर्शनानां विपुलकुशलमूलनिष्यन्दसंभूतत्वादभिलषितदर्शनानां परमदुर्लभप्रादुर्भावत्वादुदुम्वरपुप्पसदृशानां चर्चा ज्ञातुं गुणान् वा वक्तुम् ।।
गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे श्रमणमण्डले जनपदे सुमुखं नाम नगरम् । तत्र इन्द्रियेश्वरो नाम दारकः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधि- 20 सत्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्वविक्रमप्रतिपद्विशुद्धिपरमः बोधिसत्वबलालोकावभासितचित्तोऽपराजितबोधिसत्त्ववैर्यपर्यादत्तहृदयः बोधिसत्त्वदृढप्रणिधिसंनाहासंकुचितचित्तो बोधिसत्त्वाशयदृढसंस्थानपरिणाहपरमो वोधिसत्त्वचर्यामेघसंधारणसंप्रस्थानाशयो बोधिसत्त्वधर्ममेघापरितृप्तसंतानः सर्वबोधिसत्त्वगुणावताराभिनुखप्रणिधानः सर्वजगत्सारथि- 25 संग्राहकभूतमात्मानमुपनामयितुकामः सर्वजगन्महासंसाराटवीकान्तारादतिक्रामयितुकामः कल्याणमित्रदर्शनश्रवणपर्युपासनापरितृप्त एव अप्रमाणधर्मगौरवसंजातः सुदर्शनस्य भिक्षोः पादौ शिरसाभिवन्ध सुदर्शनं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुदर्शनस्य मिक्षोरन्तिकाव्सक्रान्तः ॥ १२ ॥
131
१ B निर्भासानां. २B °समुद्योतितत्वात्.