SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १५ इन्द्रियेश्वरः । अथ खलु सुधनः श्रेष्ठिदारकत्तां सुदर्शनस्य भिक्षोरनुशासनीमनुमन्त्रयन्, प्रवर्तयन् अनुप्रयच्छन् प्रविचिन्त्रन् प्रभाषमाणः प्रतिभावयन् उदीरयन् दर्शयन् अनुविचिन्तयन् अभ्यवचरन्, नयं विगमयन्, तद्धर्मनयमनुविचारयन् अवभारयन् समवसरन् आवर्तयन् 5 संभिन्दन् प्रदर्शयन् अवभासयन् अनुविलोकयन् देवनागयक्षगन्धर्वपरिवारोऽनुपूर्वेण ये श्रमणमण्डले जनपदे सुमुखं नगरं तेनोपसंक्रान्तः इन्द्रियेश्वरं दारकं परिमार्गमाणः । तस्योपर्यन्तरिक्षे गता देवनागयक्षगन्धर्वा आरोचयन्ति - एष कुलपुत्र इन्द्रियेश्वरो दारको नदीसंभेदाभ्याशे दशदारकसहस्रपरिवृतः पांशुक्रीडया क्रीडतीति ॥ S 132 अथ खलु सुधनः श्रेष्ठिदारको येन सुमुखं नगरं नदीसंभेदाभ्याशस्तेनोपसंक्रान्तः । 10 सोनाक्षीत् इन्द्रियेश्वरं दारकं दशदारकसहस्रपरिवृतं पांशुक्रीडया क्रीडन्तम् । दृष्ट्वा च पुनर्येनेन्द्रियेश्वरो दारकस्तेनोपसंक्रम्य इन्द्रियेश्वरस्य दारकस्य पादौ शिरसाभिवन्द्य इन्द्रियेश्वरं दारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य इन्द्रियेश्वरस्य दारकस्य पुरतः प्राञ्जलि: स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन वोधिसत्त्वत्चर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यों 15 वोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्य :- कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह- अहं कुलपुत्र मञ्जुश्रिया कुमारभूतेन लिपिसंख्यामुद्रागणनानयं शिक्षयता सर्वशिल्पाभिज्ञावभासज्ञानमुखमवतारितः । सोऽहं कुलपुत्र, यानि इमानि लोके लिपिसंज्ञागतानि संख्यागणनामुद्रानिक्षेपज्ञानविविधशिल्पज्ञानानि धातुतन्त्राणि विषयप्रयोगप्रतिभानकानि शोषापस्मारभूतप्रेत ग्रहप्रतिषेधकानि ग्रामनगरनिगमपट्टनोद्यानतपोवनावसथनिवेशनज्ञानानि अभिप्रायप्रकार प्रासादगवाक्षकूटागारपरिणाह20 ज्ञानानि विविधयन्त्ररथक्रियोपचारज्ञानानि क्षेमाक्षेमभयाभयनिमित्तज्ञानानि कृषिवाणिज्यव्यवहारक्रियाप्रयोगज्ञानानि सर्वाङ्गप्रत्यङ्गलक्षणचारोपचारविचारज्ञानानि सुगतिदुर्गतिकर्मपथविशुद्ध्यनुगमज्ञानानि कुशलाकुशलधर्मगणपूजाज्ञानानि सुगतिदुर्गतिसंभारज्ञानानि श्रावकप्रत्येकबुद्धयानसंभारज्ञानानि तथागत भूमिसंभारज्ञानानि हेतुक्रियाप्रयोगोपचारज्ञानानि, तानि सर्वाणि प्रजानामि । तेषु च सत्त्वानवतारयामि, निवेशयामि प्रतिष्ठापयामि 25 शिक्षयामि शीलयामि दृढीकरोमि सारीकरोमि संतरामि संभावयामि संवर्तयामि उन्नामयामि विवर्धयामि निमित्तीकरोमि कोटीकरोमि विशोधयामि विमलीकरोमि उत्तापयामि प्रभाखरीकरोमि त्रिपुलीकरोमि । सोऽहं कुलपुत्र बोधिसत्त्वानां गणनानयं जानामि । स पुनः कतमः ? 1 शतं शतसहस्राणां कोटि कोटि : कोटीनामयुतम्, अयुतमयुतानां नियुतम्, नियुतं नियुतानां बिम्बरम्, बिम्बरं बिम्बराणां किंकरम्, किंकरं किंकराणामगरम्, अगरमगराणां प्रवरम्, 30 प्रवरं प्रवराणां मपरम्, मपरं मपराणां तपरम्, तपरं तपराणां सीमम्, सीमं सीमानां यामम्, यामं यामानां नेमम्, नेमं नेमानामवगम्, अवगमवगानां मृगवम्, मृग वंमृगवानां विरागम्, १ Bom. कोटीकरोमि . B 53 8 193
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy