________________
S129
१०० गण्डव्यूहसूत्रम्।
[१४.०कृताञ्जलिपुटा नमस्यन्ति । असङ्गवला वायुदेवता गन्धधूपपुष्पाकुलं मारुतं प्रमुश्चन्ति । वासन्तीरात्रिदेवताः स्खलंकृतशरीराः प्रणताङ्गा नमस्यन्ति । सदाविबोधनमण्डला दिवसदेवता दिनोचनमणिरत्नध्वजगृहीता गगनतले तिष्ठन्ति आलोकसंजननार्थाय ॥
____ अथ खल्ल सुधनः श्रेष्ठिदारको येन सुदर्शनो भिक्षुस्तेनोपसंक्रम्य सुदर्शनस्य भिक्षोः 5 क्रमतलान्यां निपल सुदर्शनस्य भिक्षोः क्रमतलं परिचुम्ब्य परिलिख्य पुरतः प्राञ्जलिः स्थित्वा एवनाह-अहनार्य अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो वोधिसत्त्वचर्या परिमार्गामि। श्रुतं च मे आर्यों बोधिसत्त्वानामववादानुशासनी ददाति, अनुशासनीमनुप्रयच्छति । तद्वदतु मे आर्य:-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । स
आह-अहं कुलपुत्र दहरो जात्या, नवकस्तु प्रवज्यया । तेन मे कुलपुत्र एकजन्मना 10 अष्टत्रिंशद्वङ्गानदीवालुकासमानां तथागतानामन्तिके ब्रह्मचर्यं चीर्णम् । कचिन्मे तथा रात्रि
दिवं ब्रह्मचर्य चीर्णन्, कचिसप्त रात्रिंदिवानि, क्वचिदर्धमासम् , क्वचिन्मासम्, कचिद्वर्षम् , कचिद्वर्षशतम् , कचिदर्पसहस्रम् , क्वचिद्वर्षशतसहस्रम् , क्वचिदर्षकोटीम् , कचिद्वर्षकोटीनियुतम् , काचिद् यावदनभिलाप्यानभिलाप्यानि वर्षाणि, क्वचिदन्तरकल्पम् , क्वचिदर्धकल्पम् , कचित्कल्पम् , कचिन्मे तथागते यावदनभिलाप्यानभिलाप्यान् कल्पान् 15 ब्रह्मचर्य चीर्णमनयैव कल्पसंख्यया । सर्वेपामेव तथागतानामन्तिकाद्धर्मदेशना श्रुता।
अववादानुशासनी संप्रतीच्छिता । प्रणिधानव्यूहाः परिशोधिताः । समुदागमविषयावतीर्णचर्यामण्डलं परिशोधितम् । पारमितासागराः परिपूरिताः । अभिसंबोधिविकुर्वितानि आज्ञातानि । धर्मचक्रप्रवर्तनानि चैषामन्योन्यासंभिन्नानि संधारितानि । वलसमता चैषामवतीर्णा । शासनं चैषां संधारितं यावत्सद्धर्मनिष्टापर्यन्तम् । सर्वेषां च मे तेषां तथागतानां 20 पूर्वग्रणिधानानि खवुद्धक्षेत्रपरिशुद्धयेऽभिनिहतानि प्रणिधिमण्डलसमाध्यभिनिरिबलेन ।
सर्वेषां च मे तेषां पूर्वबोधिसत्त्वचर्या खचर्यापरिशुद्धयेऽभिनिर्हता सर्वचर्यावतारसमाधिप्रतिलम्भबलेन । सर्वेषां च मे तेषां तथागतानां पारमिताविशुद्धिरभिनिर्दता समन्तभद्रचर्यानिर्याणबलेन। अपि तु खलु पुनर्मे कुलपुत्र एवं चक्रम्यमाणस्य सर्वदिक्स्रोतोमुखान्यावर्तन्ते सुविलोकि
तज्ञानमुखतया । सर्वलोकवातुस्रोतोमुखानि व्यावर्तन्ते एकचित्तोत्पादन अनभिलाप्यानभि25 लाप्यलोकधात्वतिक्रमणपरिशोधनतायै यदुत महाप्रणिधानाभिनिर्हारवलेन । एकचित्तक्षणेन
अनभिलाप्यानभिलाप्यसत्त्वचर्यानयमुखान्यमिमुखमावर्तन्ते दशबलज्ञानपरिपूरये । समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यमिनिहरिवलेन एकचित्तोत्पादेन अनभिलाप्यानमिलाप्यबुद्धक्षेत्रदर्शनविशुद्धयोऽभिमुखीभवन्ति अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमतथागतपूजोपस्थान
परिचारणतायै । पूर्वोत्तरतथागतपूजाप्रणिध्यमिनिरिबलेन एकचित्तोत्पादेन अनभि330 लाप्यानभिलाप्यतथागतधर्ममेघा आशयेऽभिपतन्ति । असंख्येयधर्मगतिविध्यनुगमधर्मचक्र
संधारणधारणीप्रणिध्यमिनिहरिवलेन एकचित्तोत्पादेन अनभिलाप्यानभिलाप्यबोधिसत्त्वचर्या
BER
8130
-
१B परिलिखित्वा.