________________
5112
११ भीष्मोत्तरनिर्घोषः। अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वानुशासन्यनुगतचित्तो बोधिसत्त्वचर्चापरि- शोधनानुगतचित्तो बोधिसत्त्वपुण्यबलविवर्धनचित्तो बुद्धदर्शनवेगावभासितचित्तो धर्मनिधानप्रतिलाभसंजातचित्तवेगो महाप्रणिधानाभिनिहारप्रवर्धितचित्तवेगः सर्वधर्मदिगभिनुखचित्तो धर्मस्वभावावभासितचित्तः सर्वावरणविकिरणचित्तो निरन्धकारधर्मधानुव्यवलोकनचित्तो । नारायणवज्ररत्नाभेद्यविमलाशयचित्तः सर्वमारवलदुर्योधनदुर्धर्पणचित्तोऽनुपूर्वेण येन नाल्युर्जनपदः तेनोपसंक्रम्य भीष्मोत्तरनिर्घोषमुषिनन्वेषते स्म । तेन च समयेन भीष्मोत्तरनिर्घोषपिरन्यतमस्मिन्नाश्रमपदे विहरति स्म असंख्येयविचित्रद्रुमलताबनरमणीये विविधवृक्षपत्रसंछने सदाप्रफुल्लितविचित्रपुष्पवृक्षे सदाफलोपचितफलवृक्षे नानारत्नवृशोदारमणिफलकसंस्कृततले सुविभक्तमहाचन्दनद्रुमे मनोज्ञागरुवृक्षसदाप्रमुजगन्धोपशोभिते चतुर्दिक्षु 10 विभक्तगन्धोपशोभिते चतुर्दिक्षु विभक्तपाटलीवृक्षसमलंकृते न्यग्रोधवृक्षपादपरुचिरसंस्थाने सदापक्कफलजम्बूवृक्षप्रवर्षणे नवनलिनीपोत्पलकुमुदोपशोभिते । अद्राक्षीसुधनः श्रेष्टिदारको भीष्मोत्तरनिर्घोषमृर्षि दशऋषिसहस्रपरिवृतं चन्दनतलावबद्धायां कुट्यां जटानकुटधारिणमजिनदर्भचीवरवल्कलवसनं तृणसंस्तरोपविष्टम् । दृष्ट्वा च पुनर्येन भीष्मोत्तरनिर्घोष ऋषिस्तेनोपजगाम । उपेत्य भूतकल्याणमित्रप्रतिलम्बनाशयकल्याणमित्रायद्वारा सर्वज्ञतां संपश्यन् , 15 भूतमार्गोपनयाय कल्याणमित्रानुशासन्यधीनां सर्वज्ञतां संपश्यन् , सर्वज्ञताभूम्युपनयेन कल्याणमित्रदासाधीनां सर्वज्ञतां सपश्यन् , दशवलज्ञानरत्नद्वीपोपनयेन कल्याणमित्रोल्कावभासितां सर्वज्ञतां संपश्यन् , दशबलज्ञानालोकसंजननतया कल्याणमित्रमार्गा सर्वज्ञतां संपश्यन् , अक्षुण्णसर्वज्ञतापुरप्रापणतया कल्याणमित्रप्रदीपां सर्वज्ञतां संपश्यन् , समविषमसंदर्शनतया कल्याणमित्रं सेतुं सर्वज्ञतायाः संपश्यन् , सर्वप्रपातभयविगमनतया कल्याण- 21 मित्रच्छत्रां सर्वज्ञतां संपश्यन् , महामैत्रीबलाहादसंजननतया कल्याणमित्रवेगां सर्वज्ञतां संपश्यन् , महाकरुणासंजननतया कल्याणमित्राधीनां सर्वज्ञतादर्शनपरिपुष्टिं संपश्यन् , धर्म- खभावनयावभासनतया सर्वशरीरेण प्रणिपत्य उत्थाय भीष्मोत्तरनिर्घोषमृषि अनेकशतसहन्नकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिभूतः पुरतः स्थित्वा मनोज्ञोपचारेण मनोज्ञां वाचमुदीरयन् एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधि- 25 सत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यों बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खल्ल भीष्मोत्तरनिर्घोषऋषिस्तानि दश माणवकसहस्राण्यनुविलोक्य एवमाहअनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । सर्वसत्त्वाश्चाभये-30 नोपनिमन्त्रिताः । अयं स कुलपुत्राः सर्वसत्त्वहितसुखाय प्रत्युपस्थितो ज्ञानसागराभिमुखः
१ B om. मनोज्ञोपचारेण.
12