________________
B 45
S 113
गण्डव्यूहसूत्रम् ।
[ ११.०
सर्वतथागतानां धर्मनेधान् धातुकामः सर्वधर्मनयसागरानवगाहयितुकामः महाज्ञानालोके - ऽवस्थातुकामो महाकरुणामेनुपस्थापयितुकामो महाधर्मवर्पमभिप्रवर्षयितुकामो महाज्ञानालोके चन्द्रे उदागत्य सर्वक्लेशप्रतापं प्रशमयितुकामो सर्वसत्त्वकुशलमूलानि वर्धयितुकामः ॥
८८
1
अथ खलु तानि दश माणवकसहस्राणि नानावर्णैः सुरुचिरैः सुगन्धैः पुष्पैः सुधनं ऽ श्रेष्टिदारकमवकीर्य अभ्यवकीर्य अभिवन्द्य नमस्कृत्वा प्रणिपत्य प्रदक्षिणीकृत्य एवं वाचमुदीरयामासुः — एप त्राता भविष्यति, सर्वसत्त्वानां सर्वनिरयदुःखानि प्रशमयिष्यति । सर्वतिर्यग्योनिगतिं व्यवच्छेत्स्यति । सर्वयमलोकगीत विनिवर्तयिष्यति । सर्वाक्षणद्वारकपाटानि पिथपयिष्यति । तृष्णासमुद्रमुच्छोपयिष्यति । तृष्णावन्धनं छेत्स्यति । दुःखस्कन्धं विनिवर्तयिष्यति । अविद्यान्धकारं विधमयिष्यति । पुण्यचक्रवालं लोके परिसंस्थापयिष्यति । ज्ञानरत्नाकरमुप10 दर्शयिष्यति । ज्ञानसूर्यनुदागमिष्यति । धर्मचक्षुर्विशोधयिष्यति । समविषमं लोके संप्रकाशयिष्यति । अथ खलु भीष्मोत्तरनिर्घोप ऋपिः तान् माणवकानेवमाह-येन माणवका अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं भवति, स बोधिसत्त्ववर्यां चरन् सर्वसत्त्वानां सुखनुत्पादयति, अनुपूर्वेण च सर्वज्ञतां प्रतिलभते । अनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । स एष सर्वबुद्धगुणभूमिं परिषैरयिष्यति । अथ खलु 15 भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र अपराजितध्वजस्य बोधिसत्त्वस्य विमोक्षस्य लाभी । सुधन आह—क एतस्य आर्य अपराजितध्वजस्य वोधि - सत्त्वविमोक्षस्य विषयः ? ततो भीष्मात्तरनिर्घोषऋषिः दक्षिणं पाणि प्रसार्य सुधनं श्रेष्ठिदारकं शिरसि परिमार्ण्य दक्षिणेन पाणिना पर्यगृह्णात् । समनन्तरपरिगृहीतश्च सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषेण ऋषिणा दक्षिणेन पाणिना, अथ तावदेव सुधनः 20 श्रेष्ठिदारकोऽपश्यद्दशसु दिक्षु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजः समानि बुद्धक्षेत्राणि । तेषु च दशबुद्धक्षेत्रशतसहस्रपरमाणुरजः समानां तथागतानां पादमूलगतमात्मानं संजानाति स्म । तानि च बुद्धक्षेत्राण्यपश्यदसंख्येयाकारविशुद्धव्यूहानि । तेषु च तथागतपर्षन्मण्डलसमुद्रान्नानावर्णविचित्रव्यूहानपश्यत् । तेषु च पर्षन्मण्डलसमुद्रेषु तथागतशरीराणि लक्षणानुव्यञ्जनोब्वलितोपचितान्यपश्यत् । तेभ्यश्च धर्मदेशनां शृणोत्येकपदव्यञ्जनापराङ्मुखाम् । 25 तानि च तथागतधर्मचक्राण्यन्योन्यासभिन्नानि संधारयति । तांश्च धर्ममेवान्नानासत्त्वाशयेषु प्रवर्षणां संप्रतीच्छति । तेषां च तथागतानां नानाधिमुक्तिबलविशोधितं पूर्वप्रणिधानसमुद्रानवतरति । तांश्च नानाप्रणिधानसागरविशुद्धान् बुद्धसमुदागमसमुद्रानवतरति । तांच यथाशयसर्वसत्त्वसहस्रसंतोषणविज्ञापनान् बुद्धवर्णानद्राक्षीत् । तानि च बुद्धरश्मिजालानि नानाविरागविशुद्धव्यूहमण्डलान्यपश्यत् । तानि च बुद्धबलान्यनावरणज्ञानालोकानुगमेनाव80 तरति । स क्वचित्तथागतपादमूले रात्रिंदिवं संजानाति । कचित्सप्त रात्रिंदिवानि, कचिदर्धमासम्, कचिन्मासम्, क्वचित्संवत्सरं कचिद्वर्षशतं कचिद्वर्षसहस्रं कचिद्वर्षशतसहस्रं कचि -
1
१ B परिशोधयिष्यति. २ Bom तानि च... पश्यत्.