________________
गण्डव्यूहसूत्रम् ।
[१०.०अथ खलु सुधनः श्रेष्ठिदारक आशाया उपासिकायाः पादौ शिरसाभिवन्द्य आशामुपासिकामनेकशतसहत्रकृत्वः प्रदक्षिणीकृल्य पुनः पुनरवलोक्य प्रणिपल्य अश्रुमुखो रुदन् बोधिपरमदुर्लभतामनुविचिन्तयन् , कल्याणमित्रदुरारागणतामनुविचिन्तयन् , सत्पुरुषसमवधानसुदुर्लभतामनुविचिन्तयन् , बोधिसत्त्वेन्द्रियप्रतिलाभदुरभिसंभवतामनुविचिन्तयन् , बोधि5 सत्त्वाशयविशुद्धिदुर्लभतामनुविचिन्तयन् , सभागमित्रसमवधानदुर्लभतामनुविचिन्तयन् , यथावद्वोव्यभिमुखचित्तनिध्यप्तिदुर्लभतामनुविचिन्तयन् , अविपमधर्मनयानुशासनीप्रयोगदुर्लभतामनुविचिन्तयन् , असंहार्यचित्तकल्याणतायोगसंजननदुर्लभतामनुविचिन्तयन् , सर्वज्ञतावेगविवर्धनधर्मालोकलुदुर्लभतामनुविचिन्तयन् , आशाया उपासिकाया अन्तिकात्प्रक्रान्तः ॥ ८॥