SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ -१०.०] १० आशा। पस्थानतायै बोधिसत्त्वानां प्रणिध्यभिलाषो भवति । अनवशेषसर्वदुक्षेत्रपरिशोधनाय बोधिसत्त्वानामाशयो दृढीभवति । अनवशेपसर्वबुद्धशासनसंधारणाय बोधिसत्वानां प्रयोगः संभवति । अनवशेषसर्वतथागतप्रस्थानप्रणिधिविमात्रतानुगमाय बोधिसत्त्वानां चित्तवेगाः प्रादुर्भवन्ति । अनवशेपसर्वतथागतसर्वबुद्धक्षेत्रगुणव्यूहावतरणाय बोधिसत्त्वाना व्यवसाय उत्पद्यते । अनवशेषसर्वतथागतपर्पन्मण्डलसमुद्रावतरणाय बोधिनत्त्वानामभिलायः । प्रभवति । अनवशेपसर्वजगच्चित्तसागरावगाहनतायै बोधिसत्त्वानां प्रार्थना संजायते । अनवशेषसर्वसत्त्वेन्द्रियचक्रपरिज्ञाय बोधिसत्त्वानामभिकाङ्क्षोत्पद्यते । अनवशेषसर्वसत्त्वेन्द्रियसागरावतरणतायै बोधिसत्त्वानामुत्सोडिराजायते । अनवशेफ्सर्वलोकधातुकल्पपरंपरावतरणाय बोधिसत्त्वानां छन्दः संभवति । अनवशेषसर्वसत्त्वक्लेशवासनानुसंधिसमुच्छेदाय बोधिसत्त्वानां पराक्रम आजायते । अनवशेषसर्वसत्त्वकर्मक्लेशसमुद्रोच्छोपणाय 10 बोधिसत्त्वानां महाज्ञानसूर्य उदागच्छति । अनवशेषसर्वसत्त्वचर्यापरिज्ञाय बोधिसत्त्वानां प्रज्ञालोकः प्रादुर्भवति । अनवशेषसर्वसत्त्वदुःखाग्निस्कन्धप्रशमनाय बोधिसत्त्वानां महाकरुणामेघः समुदागच्छति । संक्षेपेण कुलपुत्र एतत्प्रमुखानि दश बोधिसत्त्वचर्यानयमुखासंख्येयशतसहस्राणि, यानि बोधिसत्त्वेन सनुदानयितव्यानि । अपि तु खलु पुनः कुलपुत्र सर्वधर्मसमवसरणा बोधिसत्त्वानां चर्या यदुत ज्ञानानुगमाय । सर्वक्षेत्रसमवसरणा 15 बोधिसत्त्वानां चर्या यदुत परिशोधनतायै । तस्या मम कुलपुत्र एवंप्रणिधेर्यनिष्ठा कामधातुविशुद्धिः, तन्निष्ठानि मम प्रणिधानानि भवन्तु । यन्निष्ठा लोकधातुविशुद्धिः, तन्निष्टानि मम प्रणिधानानि भवन्तु । या निष्ठा सर्वसत्त्वक्लेशवासनानुसंध्यनुशयानाम् , तन्निष्ठानि मम प्रणिधानानि भवन्तु ॥ आह-को नाम आयें एष विमोक्षः ? आह-अशोकक्षेमध्वजो नाम कुलपुत्र एष 20. विमोक्षः । एतमहं कुलपुत्र, एकं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सागरसमचित्तानां बोधिसत्त्वानां सर्ववुद्धधर्मसंप्रतीच्छनतया, मेरुकल्पानां दृढाच्याशयतया, सुदर्शनभैषज्यराजोपमानां सर्वसत्त्वक्लेशव्याधिप्रमोक्षणतया, आदित्यकल्पानां सर्वसत्त्वाविद्यान्धकारविधमनतया, धरणीसमचित्तानां सर्वसत्त्वाश्रयप्रतिष्ठानभूततया, मारुतसदृशानां सर्वजगदर्थकरणतया, प्रदीपभूतानां सर्वसत्त्वज्ञानालोककरणतया, मेघोपमानां शान्तनिर्घोष-25 यथावद्धर्मप्रवर्षणतया, चन्द्रोपमानां पुण्यरश्मिजालप्रमोचनतया, शक्रोपमानां सर्वजगदारक्षाप्रतिपन्नतया चर्या ज्ञातुं गुणान् वा वक्तुम् , अचिन्त्या वा बोधिसत्वशिक्षाः प्रभावयितुम् , अनन्तमध्या वा बोधिसत्त्वप्रणिधिविकल्पाः संदर्शयितुम् ॥ गच्छ कुलपुत्र अयमिहैव दक्षिणापथे समुद्रवेताल्यां नालयुर्नाम जनपदः। तत्र भीष्मोत्तरनिर्घोषो नाम ऋषिः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ । स ते कुलपुत्र बोधि- 30 सत्वचर्यामुपदेश्यति ॥ १९ अशोककमध्वजो. S 110 B44
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy