________________
-१०.०
१० आशा! ऊ या दिश आगच्छन्ति । नहाब्रह्मागो वा ब्रह्मपुरोहिता वा ब्रह्मकायिका वा वशतिनो वा वशवर्तिकायिका वा यावन्ननुप्येन्द्रा वा मनुष्या वा आगच्छन्ति नानाव्याधिस्पृष्टा नानाक्लेशपर्यवस्थिता विविधदृष्टिगताभिनिविष्टाः कर्मावरणवृताः, ते नदर्शनादाशाया उमानिकायाः सर्वव्याध्युपशान्ता भवति । विगतक्लेशमलचित्ता अपगतदृष्टिशल्याः सावरगपर्वतविकीगी अनावरणविशुद्धिमण्डलमवतरन्ति । यत्र विशुद्धिमण्डले सर्वकुशलमूलान्युत्त- 5 पन्ते, सर्वेन्द्रियाङ्कुरा विवर्धन्ते, सर्वज्ञज्ञाननयसागराः समवसरन्ति । संबंधारणीमुग्डनयसमुद्रा आवर्तन्ते । सर्वसमाधिमुखनयसमुद्रा अभिमुखीभवन्ति । सर्वप्रणिधाननुखानि संजायन्ते । सर्वचर्यामुखानि प्रवर्तन्ते । सर्वगुणाभिनिहस्रमुखानि विशुध्यन्ते । चित्तवैपुल्यतासवाभिज्ञावतिनयेन प्रवर्तन्ते । कायासङ्गता सर्वत्रानुगता भवन्ति ॥
अथ खलु सुधनः श्रेष्ठिदारकः समन्तव्यूहमुद्यानं प्रविश्य समन्तादनुविलोकयन् 19 अद्राक्षीदाशामुपासिकां भद्रासने निषष्णाम् । स येन आशोपासिका तेनोपजगाम । उपत्य आशाया उपासिकायाः पादौ शिरसाभिवन्ध आशोपासिकाननेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य एतदवोचत्-मया आर्ये अनुत्तरायां सम्यक्संवोधौ चित्तनुत्पादितन् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्या-कथं बोधि- 15 सत्वेन बोधिसत्त्वचर्यायां शिक्षितव्यन् , कथं प्रतिपत्तव्यम् ॥
सा आह---अहं कुलपुत्र, अशोकक्षेमध्वजस्य बोधिसत्त्वविमोक्षस्य लामिनी । साहं कुलपुत्र अमोघदर्शना अमोघश्रवणा अमोघपर्युपासना अमोधैकवाससंवासना अमोघानुस्मरणा । नाहं कुलपुत्र, अनवरोपितकुशलमूलानां सत्त्वानां चक्षुष आभास- मागच्छामि दर्शनविज्ञप्त्या, नापरिगृहीतकल्याणमित्राणां नासमन्वाहृतसम्यक्संबुद्धानाम् । 20 मम कुलपुत्र सहदर्शनेन सत्त्वा अवैवर्तिका भवन्त्यनुत्तरायाः सम्यक्संबोधेः । अपि तु खलु पुनर्मे कुलपुत्र, पूर्वस्यां दिशि तथागता आगत्य इह रत्नासने निषद्य धर्म देशयन्ति । यथा पूर्वस्यां दिशि, एवं दशभ्यो दिग्भ्यः । साहं कुलपुत्र अविरहिता तथागतदर्शनेन, अविरहिता धर्मश्रवणेन, अविरहिता बोधिसत्त्वसमवधानेन । यान्यपीमानि कुलपुत्र चतुरशीतिः प्राणिकोटीनियुतशतसहस्राणि इह समन्तव्यूहे महोद्याने प्रतिवसन्ति, सर्वाण्येतान्य- 25 वैवर्तिकान्यनुत्तरायाः सम्यक्संबोधेः मम सभागचरितानि। येऽप्यन्ये कुलपुत्र केचिदिह सत्त्वाः प्रतिवसन्ति, तेऽप्यविवाः सर्वेऽनुत्तरायाः सम्यक्संबोधेः । अविवर्त्यसंघसमवसरणा मम सभागचरिता वोधिसत्त्वाः । आह-कियच्चिरोत्पादितं त्वया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तम् ? आह-अहं कुलपुत्र पूर्वेनिवासमनुस्मरामि, दीपंकरं तथागतमहन्तं सम्यक्संबुद्धम् । तस्य मे तथागतस्यान्तिके ब्रह्मचर्य चीर्णम् । स च मे तथागतः 30 पूजितः, धर्मदेशना च मे तस्यान्तिकादुगृहीता । तस्य परेण विमलो नाम तथागतोऽभूत् ।
Som. अविरहिता. गण्ड. ११
s 104