SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 8105 गण्डन्यूहसूत्रम् । [१०.०तन्याहं शासने प्रत्रजिता, धर्मचक्रं च मे संवारितम् । तस्य परेण केतुनीम तथागतोऽभूत् । स नया आरागितः । तत्य परेण नेरुश्री म तथागतोऽभूत् । तस्य परेण पद्मगर्भो नाम तथागतोऽभूत् । तस्य परेण वैरोचनो नाम तथागतः। तत्य परेण समन्तचक्षुर्नाम तथागतः । तस्य परेण ब्रह्मशुद्धो नाम तथागतः । तस्य परेण वज्रनाभिर्नाम तथागतः । तस्य परेण वरुण5 देवो नाम तथागतोऽभूत् । अनेन कुलपुत्र पर्यायेण जातिपरंपरया कल्पपरंपरया बुद्धपरं परामवतरन्ती अनुस्मन्माणा तथागतानहतोऽनन्तर्यतया पट्त्रिंशद्गङ्गानदीवालुकासमांस्तथागताननुस्मरामि, ये मया आरागिता उपस्थिताः पूजिता अर्चिताः, येषां मया अन्तिकाद्धर्मदेशना श्रुता, येषां च मे शासने ब्रह्मचर्य चीर्णम् । अत उत्तरि कुलपुत्र तथागताः प्रजा नन्ति, यावन्तो मया तथागता आरागिताः । अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रथम10 चित्तोत्पादनैव सर्वधर्मधातुस्फरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महाकरुणानयेन सर्वजगदन्तर्गततया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महाप्रणिधानदशदिग्धर्मधातुतलनिष्ठानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा महामैत्र्या सर्वजगत्स्फरणतया, अप्रमाणाः कुलपुत्र, बोधिसत्त्वा बोधिसत्त्वचर्यया सर्वक्षेत्रेषु सर्वकल्पसमवसरणतया, अप्रमाणाः कुल पुत्र वोधिसत्त्वाः समाधिवलेन बोधिसत्त्वमार्गाप्रत्युदावर्तनतया, अप्रमाणाः कुलपुत्र बोधि15 सत्त्वा धारणीबलेन सर्वजगत्संधारणधारणीनयानुगमनतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा ज्ञानालोकबलेन त्र्यध्वज्ञाननयानुगमनसंधारणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वा अभिज्ञाबलेन सर्वक्षेत्रेषु यथाशयसत्त्वाभिरुचितप्रभाजालचक्राभिनिर्हरणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः प्रतिसंविद्वलेन एकघोषोदाहारसर्वजगत्संतोषणतया, अप्रमाणाः कुलपुत्र बोधिसत्त्वाः कायविशुद्धया सर्वबुद्धक्षेत्रखशरीरस्फरणतया ॥ 20 सुधन आह-कियच्चिरेण आर्ये त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे ? आह-नखल कुलपुत्र एकसत्त्वारम्वणतया बोधिसत्त्वानां वोधाय चित्तमुत्पद्यते यदुत परिपाकविनयाय । न सत्त्वशतस्यार्थाय, न सत्त्वसहस्रस्य, न सत्त्वशतसहस्रस्य, न सत्त्वकोटेः, न सत्त्वकोटीशतस्य, न सत्त्वकोटीसहस्रस्य, न सत्त्वकोटीनियुतशतसहस्रस्य अर्थाय बोधिसत्त्वानां बोधाय चित्तमुत्पद्यते । न सत्त्वकङ्करस्यार्थाय, न सत्त्वबिम्बरस्य, न सत्त्वप्रवरस्य, न सत्त्वपरमस्य, 25 न सत्त्वावरस्य, न सत्त्वासीनस्य, न सत्त्वानौपम्यस्य, न सत्त्वनेमस्य, न सत्त्वविपासस्य, न सत्त्वमृगवस्य, न सत्त्वविनोहस्य, न सत्त्वविरागस्य, न सत्त्वावगमस्य, न सत्त्वविवगस्य, न सत्त्वसंक्रमस्य, न सत्त्वविसरस्य, न सत्त्वविजङ्गस्य, न सत्त्वविस्रोतसः, न सत्वविवाहस्य, न सत्त्वविभक्तेः, न सत्त्वविग्धन्तस्य, न सत्त्वतुलनस्य, न सत्त्वातुलस्य, न सत्त्ववरणस्य, न सत्त्वविवरणस्य, न सत्त्ववनस्य, न सत्त्वविवर्णस्य, न सत्त्वसाम्यस्य, न सत्त्ववरणस्य, न 30 सत्वविचारस्य, न सत्त्वविसारस्य, न सत्त्वव्यत्यस्तस्य, न सत्त्वाभ्युद्गतस्य, न सत्त्वविसृष्टस्य, न सत्त्वदेवलस्य, न सत्त्वपरिभेदस्य, न सत्त्वविक्षोभस्य, न सत्त्वपलिगुञ्जस्य, न सत्त्वहरि १ एकसंधारणतया. २ B सत्त्वविग्रहस्य. ३ B सत्त्वविखंत्रस्य. B 42 S 106
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy