SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ S 102 8 103 गण्डव्यूहसूत्रम् । [30,0मणिरत्नव्यूहत्तनन्तरमिप्रभातमणिराज पद्मगर्भाणि वज्रसिंहाक्रान्तमणिरत्नपद्मगर्भाणि । तस्य च विचित्रध्वजस्य महाविमानस्य अनेके निर्यूहा अचिन्त्यरत्नमया विचित्ररत्नव्यूहा अचिन्त्यवर्णनिभीतरुचिरसंस्थानाः । तच्च समन्तव्यूहमुद्याननुपरिष्टादशभिर्महावितानशततहन्तैः संछन्नं यदुत वन विताने मलावितानैः पुष्पवितानैर्माल्यवितानैर्गन्धवितानैर्मणि5 रत्नवितानैः सुवर्णवितानैराभरणवितानैः वज्रप्रभानमणिवितानैरैरावणनागराज विकुर्विताप्सरोवितानैः शक्राभिलग्नमणिरत्नवितानैः । एतत्प्रमुखैर्दशभिर्वितानशतसहस्रैः संछन्नम् । दशभिश्च महारत्नजालशतसहत्रैः संछन्नन् । यदुत रत्नगर्भकिङ्किणीजालैः रत्तच्छत्रजालैः स्नैविम्वजालैः सागरगर्भनुक्ताजालैः नीलँवैडूर्यमणिरत्नजालैः सिंहलताजालैः चन्द्रकान्तमणिरत्नजालैः गन्धविग्रहजालैः रत्नमकुटजालैः रत्नहारजालैः । एतत्प्रमुखैर्दशभिर्महामणिरत्न10 जालशतसहन्नैः संछन्नन् । दशभिश्च महावभासशतसहस्रैरवभासितम्-यदुत ज्योतिरश्मिमणिरत्नावभासेन आदित्यगर्भमणिरत्नावभासेन चन्द्रध्वजमणिरत्नावभासेन गन्धप्रधूपनार्चिमणिरत्नावभासेन श्रीगर्भमणिरत्नावभासेन पद्मगर्भमणिरत्नावभासेन ज्योतिर्ध्वजमणिरत्नावभासेन महाप्रदीपमणिरत्नावभासेन समन्तदिग्वैरोचनमणिरत्नावभासेन महागन्धमेघनिश्चरितविधुन्मालामणिरत्नावभासेन । एतत्प्रमुखैर्दशभिर्महामणिरत्नावभासशतसहस्रैर्नित्यावभासितं 15 तन्महोद्यानम् । दशमहाभरणमं घशतसहस्राभिवर्षितालंकारं च तन्महोद्यानं दशकालानुसारिचन्दनमेघशतसहस्त्राभिगर्जितं दशदिव्यसमतिक्रान्तमहामाल्यदाममेवशतसहस्राभिप्रलमित्रतोपशोभितं दशदिव्यसमतिक्रान्तनानारङ्गविचित्रवस्त्रमेघशत सहस्त्राभिप्रवर्षितं दिव्यसमतिक्रान्ताभरणमेघशतसहस्रविभूषितं दशदेवपुत्रशत सहस्रदर्शनकामाधोमुखप्रणताभिप्रवर्षितं दशाप्सरोमेघशतसहस्रपूर्वस भागचरितख कस्त्रकात्मभावोत्सृजनाभिप्रवर्षितं दश20 वोधिसत्त्वमेघशतसहस्रधर्मश्रवण तर्षोपसंक्रान्ताभिप्रवर्षितं च तन्महोद्यानम् । यत्र आशोपासिका काञ्चनगर्भमहाभद्रासनोपविष्टा सागरगर्भमुक्ताजालालंकृता अवबद्धमकुटा दिव्यातिरेककनककेयूरवलयबाहुव्यूहा श्रीकायरश्मिमणिरत्नविराजितबाहुः अभिनीलविमलविलम्बमणिकुण्डला महारत्नजालसंछन्नोपशोभितशीर्षा सिंहमुखमणिरत्नकर्णचूडकधारणी चिन्ताराजमणिरत्नहारावसक्तकण्ठा सर्वरत्नजालसंछन्नप्रभोज्ज्वलितशरीरा प्राणिकोटिनियुतशतसहस्र25 प्रणतकाया । तत्र ये आशाया उपासिकायाः सकाशमपरिमाणाः सत्त्वाः पूर्वस्या दिश आगच्छन्ति, महाब्रह्माणो वा ब्रह्मपुरोहिता वा ब्रह्मकायिका वा वशवर्तिनो वा परनिर्मितवशवर्तिकायिका वा सुनिर्मिता वा निर्माणरतिकायिका वा संतुषिता वा तुषितकायिका वा सुयामा वा सुयामकायिका वा देवेन्द्रा वा त्रायस्त्रिंशत्कायिका वा यक्षेन्द्रा वा यक्षा वा गन्धर्वेन्द्रा वा गन्धर्वा वा कुम्भाण्डेन्द्रा वा कुम्भाण्डा वा नागेन्द्रा वा नागा वा असुरेन्द्रा वा असुरा वा 30 गरुडेन्द्रा वा गरुडा वा किन्नरेन्द्रा वा किन्नरा वा महोरगेन्द्रा वा महोरगा वा यमा वा यमकन्या वा, प्रेतमहर्द्धिका वा प्रेता वा मनुष्येन्द्रा वा मनुष्या वा । एवं ये दक्षिणाया वा पश्चिमाया उत्तराया उत्तरपूर्वाया पूर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध १ Bom. रत्नबिम्बजालैः. ८० दश
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy