________________
Bo
१० आशा। अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रगुणाराधितः कल्याणमित्रसंप्रेषितः कल्याणमित्रदर्शनावेशाविष्टः कल्याणमित्रानुशासनी प्रतिपद्यमानः, कल्याणवचनान्यनुम्मरन्, कल्याणमित्रानुगतप्रेमा कल्याणमित्राण्याकरं बुद्धदर्शनं संपश्यन् , कल्याणमित्राणि बुद्धधर्मसंदर्शकानि संपश्यन् , कल्याणमित्राण्याचार्याणि सर्वज्ञताधर्मेषु समनुपश्यन् , चक्षुर्भूतानि । कल्याणमित्राणि बुद्धगगनालोकनतायै संपश्यन् , अनुपूर्वेण येन समुद्रवेतालीप्रदेशे समन्तव्यूहमुद्यानं तेनोपसंक्रान्तः । सोऽपश्यत् समन्तव्यूहमुद्यानं सर्वरत्नप्राकारपरिक्षिप्तं सर्वरत्नद्रुमपतिषु आविद्धसमलंकृतं सर्वरत्नपतिरुचिरसूक्ष्मकुसुमरेणुप्रमुक्तं सर्वरत्नद्रुमसमलंकृतं सर्वरत्नद्रुमपुष्पविचित्रकुसुमाकीर्णं सर्वगन्धद्रुमपतिसमन्तदिग्निश्चरितगन्धं सर्वरत्नमालाद्रुमकोशप्रमुक्तप्रलम्वनानारत्नमालावृष्ट्यभिप्रवर्षणं सर्वमणिराजद्रुममणिरत्नकृतविचित्रभक्तिसंस्ती!- 10 पशोभिततलं सर्वकल्पपुष्पद्रुमनानारङ्गवस्त्रप्रलम्बप्रच्छन्नोपचारसुविभक्तदेशं सर्ववाद्यद्रुम- By दिव्यातिरेकतूर्यमारुतसमीरितनिर्नादितमधुरनिघोषमनिम्नोन्नतपृथिवीसमतलाविद्धं सर्वाभरणवृक्षकोशप्रमुक्ताभरणविकृतविचित्रधाराभिप्रलम्बितोपशोभितब्यूहम् । तस्मिन् खल पुनः समन्तव्यूहे महोद्याने दश प्रासादकोटीशतसहस्राणि सर्वमहामणिरत्नप्रतिमण्डितनियूहव्यूहानि, दश कूटागारशतसहस्राणि जाम्बूनदकूटकनकच्छदनोपेतानि, दश विमानशतसह-15 स्राणि वैरोचनमणिरत्नोपशोभितगर्भाणि, दश पुष्करिणीशतसहस्राणि सर्वरत्नमयानि रत्नेष्टकानिचितानि सप्तरत्नविचित्रसोपानानि नानामणिरत्नवेदिकापरिवृतानि दिव्यचन्दनवारिनिप्यन्दगन्धानि सुवर्णवालुकासंस्तीर्णदशप्रासादकनकमणिरत्नाकीर्णतलानि चतुर्दिक्षु विभक्तसोपानानि अष्टाङ्गोपेतवारिपरिपूर्णानि हंसक्रौञ्चमयूरकोकिलकलविङ्ककुणालनिर्नादरुतमधुरनिर्घोषाणि रत्नतालपतिपरिवृतानि सुवर्णघण्टाजालसंछन्नमारुतसमीरितमनोज्ञनिर्वोष-20_sion शब्दानि उपरिमहामणिरत्नवितानविततानि नानारत्नवृक्षवाटिकापरिवृतानि उच्छ्रितच्छत्रध्वजमणिरत्नजालोद्योतितानि दश च तडागशतसहस्राणि, कालानुसारिचन्दनकर्दमोपचितानि सर्वरत्नमयविचित्रवर्णपद्मसंछन्नानि महामणिरत्नपद्मावभासितविमलसलिलानि । तस्य चोद्यानस्य मध्ये विचित्रध्वजं नाम महाविमानं सागरगर्भरत्नपृथिवीतलसंस्थानं वैडूर्यमणिरत्नस्तम्भोपशोभितं जाम्बूनदसुवर्णसमुद्गतकूटं जगद्विरोचनमणिरत्नगर्भव्यूहफलक- 225 बद्धमसंख्येयमणिरत्नजालोज्ज्वलिततलमजितवतिगन्धमणिराजनिधूपितोपचारमनुरचितगन्धमणिराजसमीरितगन्धं विबोधनगन्धमणिराजविधमनतीक्ष्णेन्द्रियवासनम् । तस्मिंश्च विचित्रध्वजे महाविमानेऽपरिमितान्यासनानि प्रज्ञप्तानि-यदुत पन्नगर्भाणि दिनोचनमणिरत्नपद्मगर्भाणि वैरोचनमणिरत्नपद्मगर्भाणि जगद्रोचनमणिरत्नपद्मगर्भाणि चित्रकोशमणिरत्नपद्मगर्भाणि सिंहपञ्जरमणिरत्नपद्मगर्भाणि विमलमणिरत्नपद्मगर्भाणि मणिरत्नरचितपद्म-30 गर्भाणि समन्तमुखमणिरत्नपद्मगर्भाणि प्रभाव्यूहमणिरत्नपद्मगर्भाणि सागरप्रतिष्ठानविशुद्ध
१B अपरिमाणानि. २S दुर्योधन,