SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ S 100 GA गण्डव्यूहसूत्रम् । [ ९.० त्रिषयो वा प्रभावयितुम्, महाप्रणिधानवलं वा संवर्णयितुम्, निर्याणमुखं वा अवभासयितुन्, समुदागमो वा अभिद्योतयितुन्, मार्ग वा परिदीपयितुम्, समाधिस्रोतो वा अनुसर्तुम्, चित्तविपयो वा ज्ञातुम्, ज्ञानं वा समता वा अवगन्तुन् ॥ गच्छ कुलपुत्र इहैव दक्षिणापये समुद्रवेताडी नाम प्रत्युद्देशः । तत्र समन्तव्यूहं नानोद्यानं महाप्रभत्य नगरन्य पूर्वेण । तत्र आशा नामोपासिका प्रतिवसति सुप्रभस्व मनुजेन्द्रस्य भायी । तामुपक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सारध्वजस्य भिक्षोरन्तिकादात्तसारः उपजीवितधर्मा अवतीर्णसमाधिविषयो लब्धालोकाव10 भासितज्ञानः सुमाध्यवभासप्रतिलब्धः अधिमुक्तिविशुद्ध्य नुगतधर्मनयालोकानुगतचेतनः विशुद्धिमुखानुगतालोको दिगालोकप्रसृतज्ञानः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सारध्वजं भिक्षुमवलोक्य प्रणिपत्य पुनः पुनरवलोकयन् अभिविलोकयन् निपतन् प्रणिपतन् नमस्यन् अवनमन् मनसि कुर्वंश्चिन्तयन् भावयन् पारिभावयन् उदानमुदानयन् हाकारं कुर्वन् गुणानभिमुखीकुर्वन् अनुगमयन् 15 अनुस्मरन् अनुस्मारयन् दृढीकुर्वन् अविजहन् मनसा आगमयन् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनमभिलषन् खरनिमित्तमुद्गृह्णन् धारयन् धारणानुगतचित्तो वर्णसंस्थानमनुस्मरन् ज्ञानविशेषमनुविचिन्तयन् समाधिविषयं समवतरन् प्रणिधिविषयमनुप्रबन्धन् गोचरविषयं विचारयन् ज्ञानावभासं संप्रतीच्छन् सारध्वजस्य भिक्षोरन्तिकात्प्रक्रान्तः ॥ ७ ॥ S adds अनुगतगतिर्नाम संधारणा
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy