SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६४ 879 गण्डव्यूहसूत्रम् । [..बोधिसत्त्वप्रणिध्यमिनिर्हारविशुद्धये सर्वबोधिसत्वबुद्धाधिष्टानकोशप्रतिलाभितायै सर्वबोधिसत्त्वधर्मनिधानकोशाक्षयज्ञानालोकतायै सर्वबोधिसत्त्वनिधानकोशानुगमाय सर्वबोधिसत्त्वाप्रमाणकोशाभिनिहरणताय सर्वबोधिसत्त्वमहाकरुणानिधानकोशसत्त्वविनयनिष्ठापर्यन्तगमनतायै सर्वबोधिसत्त्वविकुर्वितनिधानकोशविज्ञप्तये सर्ववोविसत्त्ववशितानिधानकोशखचित्तवश5 वर्तनतायै सर्वबोधिसत्त्वविशुद्धिनिधानकोशसर्वाकारव्यूहतायै । एवंचित्तोऽहमार्य इहोपसंक्रान्तः, एवमभिप्रायः एवंमनोरथः एवमभिनन्द्यः एवमाशयः एवंनिध्यप्तिपरमः एवंगोचराभिमुखः एवंनयानुगनाभिमुखः एवंविशुद्धिपरमः एवंव्यूहाभिप्रायः एवंप्रणतचित्तः एवंकल्याणप्रयोगः एवमभिमुखेन्द्रियः । श्रुतं च मे आर्यों बोधिसत्त्वानामववादानुशासनी ददातीति, नयनुपदिशति, अनुगमनमवभासयति, मार्गमुपदिशति, तीर्थमवतारयति, धर्म10 द्वारं विवृणोति, संशयान् छिनत्ति, काङ्क्ष विनोदयति, कथंकथाशल्यमुद्धरति, विचिकित्सामलमपकर्षयति, चित्तगहनमवभासयति, चित्तमलमपहरति, चित्तसंतति प्रसादयति, चित्तकौटिल्यमपनयति, चित्ततापं प्रह्लादयति, व्यावर्तयति, संसारचित्तं विनिवर्तयति, अकुशलेभ्यो विवर्तयति, नरकेभ्यो विवेचयति, निकेतनेभ्य उच्चालयति, अनभिनिवेशात् परिमोचयति, सर्वसङ्गेभ्य आवर्जयति, सर्वज्ञतायामभिमुखीकरोति, धर्मनगरानुप्रवेशाय 15 आवर्तयति, महाकरुणायां प्रतिष्ठापयति, महामैत्र्यां नियोजयति, बोधिसत्त्वचर्यायां प्रवेश यति, समाधिमुखभवनतायां निवेशयति, अनुगममुखेषु स्थापयति, स्वभावनिध्यप्तौ स्फरति, वलानुगमेन विभजति सर्वजगत्समतानुगमाय चित्तम् । तद्वदतु मे आर्यः कथं बोधिसत्त्वेन बोधिसत्वचर्यायां शिक्षितव्यम् ? कथमभियोक्तव्यम् ? कथं प्रयोक्तव्यम् ? कथं प्रयुक्तस्य क्षिप्रं विशुष्यति बोधिसत्त्वचर्यामण्डलम् ? 90 अथ खलु मुक्तकः श्रेष्ठी तस्यां वेलायां सर्वबुद्धक्षेत्रसमवसरणं नाम अनन्तावर्तधारणीमुखपूर्वगमं बोधिसत्त्वसमाधिमुखं समापद्यत पूर्वकुशलमूलबलाधानेन तथागताधिष्ठानेन, मञ्जश्रियश्च कुमारभूतस्य समन्वाहरेण ज्ञानालोकोपसंहारेण च । समनन्तरसमापनस्य च मुक्तकस्य श्रेष्ठिनस्तथारूपा कायपरिशुद्धिः संस्थिता यया कायपरिशुद्धया दशसु दिक्षु दशबुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः सह बुद्धक्षेत्रपरिशुद्धया सपर्षन्मण्डलाः सह 5 प्रभाविशुद्ध्या सपूर्वचर्यासंवासाः सबुद्धविकुर्विताः सप्रणिधानसंभाराः सहचर्यानिर्याणव्यूहविशुद्ध्या सामिसंबोधिसंदर्शनाः सहधर्मचक्रोइयोतनाः ससत्त्वपरिपाकाः सधर्मनिष्ठापर्यन्ताः सर्वकायेऽन्तर्गताः अनुप्रविष्टाः संदृश्यन्ते स्म । अन्योन्यासंभिन्ना अन्योन्यानावरणा अन्योन्यसुविभक्ता अन्योन्यसुव्यवस्थितनानाकल्पसंस्थाना यथावद्विज्ञप्ता नानाबुद्धक्षेत्रव्यूहाः नानाबोधिसत्त्वपर्षन्मण्डलालंकारा नानाबुद्धविकुर्वितं संदर्शयन्तः संदृश्यन्ते स्म । नानायाननय30 व्यवस्थाना नानाप्रणिधानमुखपरिदीपनाः कचिल्लोकधातौ तुषितभवनोपपन्नाः संदृश्यन्ते । सर्वबुद्धकार्य कुर्वन्तः क्वचित्तुषितभवनाच्यवमानाः, कचिन्मातुः कुक्षिगताः विविधविकुर्वितानि Bom. चित्तकौटिल्यमपनयति.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy