________________
८ मुक्तकः। अथ खलु सुधनः श्रेष्ठिदारकन्तमेव बोधिसत्त्वसरस्वतीधारण्यालोकव्यूहमनुविचिन्तयन् , तमेव बोधिसत्त्वमन्त्रनयसागरमवतरन्, तमेव बोधिसत्त्वचित्तव्यवदानविशुद्धिमनुस्मरन् , तमेव बोधिसत्त्वकुशलवासनोपसंहाराभिनिहारमभिनिर्हरन् , तदेव बोधिसत्त्वपरिपाकमुखं विशोधयन् , तदेव बोधिसत्वानां सत्त्वसंग्रहज्ञानमुत्तापयन् , तामेव बोधिसत्त्वाशयवलविशुद्धिं दृढीकुर्वाणः, तदेव बोधिसत्त्वाध्याशयवलमुपस्तम्भयन् , तमेव बोधिसत्त्वाधिनुक्तिवंशं परिशोधयन् , तामेव बोधिसत्त्वाशयचित्तकल्याणतां संभावयन् , तमेव बोधिसत्त्वव्यवसायमुत्तारयन् , सुधनः श्रेष्ठिदारको दृढप्रतिज्ञाप्रणिधिचित्तापरिखिन्नसंतानव्यूहोऽनिवर्त्यविक्रान्तवीर्यः प्रत्युदावय॑मनोव्यवसायः असंहार्यश्रद्धावलोपेतः वज्रनारायणाभेद्यचित्तः सर्वकल्याणमित्रानुशासनीप्रदक्षिणग्राही अनुपहतप्रज्ञाविषयः समन्तनुखविशुद्ध्यभिमुखः 10 अप्रतिहतज्ञानविशुद्धिगोचरः समन्तनेत्रज्ञाननयालोकः समन्तभूमिधारण्यवभासप्रतिलब्धः धर्मधातुतलभेदाभिमुखचित्तः समन्ततलाप्रतिष्ठानव्यूहविशुद्धिस्वभावविज्ञप्तः अनिकेतासमाद्वयगोचरपरमः सर्वसंज्ञाविक्रमणज्ञानमुखविशुद्धः सर्वदिक्कुलभेददिक्प्रत्यूहव्यूहः लोकतलदिग्भेदानिवर्त्यः धर्मतलदिग्भेदाप्रत्युदावर्त्यः बुद्धदिक्कुलभेददर्शनविज्ञप्तिपरमः अवदिकुलभेदानुगतज्ञानी रुचिरधर्मचक्रसंमृतबुद्धिः सनन्तरुचिरज्ञानसमाध्याकारलोकावभासित-15 चित्तः समन्तविषयभूम्यनुगतमनःशरीरः तथागतज्ञानविधुदवभासितसंतानः सर्वज्ञतोर्मिप्रसादावेगसंजातः वुद्धधर्मप्रसादवेगाविरहितः तथागताविष्टानावेगात्रिष्टः सर्ववुद्धखचित्तानुगमालोकावभासितः सर्वलोकधातुजालखशरीरस्फरणप्रणिविसमन्वागतः सर्वधर्मधातुखकायसमवसरणाभिनिर्हारपरमोऽनुपूर्वेण द्वादशभिर्वप॑स्तं वनवासिजनपदमनुप्राप्तः । स तं मुक्तकं श्रेष्ठिनं परिमार्गमाणोऽदाक्षीत् । दृष्ट्वा च पुनः सर्वशरीरेण प्रणिपल पुरतः 20 प्राञ्जलिः स्थित्वा एवमाह-आर्य, लब्धा मे लाभाः, यस्य मेधकल्याणमित्रसमवधानम् । तत्कस्य हेतोः ? दुर्लभदर्शनानि हि कल्याणमित्राणि दुर्लभप्रादुर्भावानि दुःप्रत्यागतानि । दुरुपसंक्रमणानि दुःपर्युपास्यानि । दुरासदानि दुःसंवासानि दुरभिसाव्यानि दुरनुबन्ध्यानि कल्याणमित्राणि । तच्च मेवकल्याणमित्रसमवधानं जातम् । मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । यदुत सर्वबुद्धारागणताय सर्वबुद्धाभिराधनतायै 25 सर्वबुद्धदर्शनतायै सर्वबुद्धविज्ञप्तये सर्वबुद्धसमतानुगमाय सर्ववुद्धप्रणिध्य नुगमाय सर्वबुद्धप्रणिधिपरिपूरये सर्ववुद्धसमुदागमज्ञानालोकनतायें सर्ववुद्धस्त्रशरीराभिनिर्हरणतायै सर्वबुद्धसमुदागमखचर्याभिनिर्हरणतायै सर्वबुद्धविकुर्वितप्रत्यक्षाभिज्ञताय सर्ववुद्धबलवैशारद्यपरिशुद्धये सर्वधर्मदेशनाश्रवणावितृप्तताय सर्वबुद्धधर्मदेशनाश्रवणोद्हणताय सर्वबुद्धधर्मदेशनासंधारण- तायै सर्वबुद्धधर्मदेशनाविभजनतायै सर्वबुद्धशासनसंधारणतायै सर्वबुद्धसत्त्वैकत्वतायै 30 सर्वबोधिसत्त्वसभागताय सर्वबोधिसत्त्वचर्यापरिशुद्धये सर्वबोधिसत्त्वपारमितापरिपूरये सर्व
S78
B31
-
१B om. दुरासदानि.