________________
५६ ]
' चित्रसेनपद्मावतीचरित्रम
[४६३-५०१
-
अाददानोतुलं दण्डं सीमस्थवसुधाभुजाम् ॥४६॥ अनुक्रमण सम्प्राप्तः पत्तनोपान्तकानन । मन्त्रिणा रत्नसारेण श्रुतो राजा समागतः ॥४६४॥ भर्तुगगमनं श्रुत्वा पद्मावत्यपि हर्षतः' । उत्सवं कारयामास वसन्तपुरपत्तने ॥४६॥ सन्मुखश्चलितो मन्त्री परिच्छदसमन्वितः ।। समन्तः पुरलोकोपि प्रमोदाञ्चितमानमः ।।४६६।। उपायनं समादाय मिलितो मन्त्रिपुङ्गवः । पपात भूपतेः पादौ प्रभूतप्रेमपूरितः ॥४६७॥ भूपेन सहसोत्थाय समालिङ्गय च निर्भरम् । दत्ताधमासनं तोषात्स पृष्टः कुशलादिकम् ॥४६८|| ततोभीष्टस्य पुत्रस्य पुरस्यान्त:पुरस्य च । गजवाजिरथादीनां पप्रच्छ कुशलं नृपः ॥४६६।। ततो मन्त्रिवरोपेतश्चलितो वसुधेश्वरः । वनक्रीडा प्रकुर्वाणो गतो गोपुरसन्निधौ ॥५०॥ धर्मसेनाभिधः पुत्र आगतः सपरिच्छदः । पितुः पादयुगं भक्त्या ननामोद्दामसम्मदः ॥५०॥ प्रालिलिङ्ग ततो भूपः पुत्रं प्रणयपूर्वकम् ।
1 A हर्षित: evidently for हर्षत: or हर्षिता।