________________
[ ५५
पश्यन् सङ्ग्रामकौशल्यं चित्रसेननरेश्वरः । प्रशंसां कुरुतेतराम् । ४८४॥
रत्नशेखर सैन्यस्य यदा सिंहपुरस्वामी सङ्ग्रामान्न निवर्तते । दण्डरलं तदा कोपादानीतं करगोचरे ||४८५ ॥ परमेष्ठ्यभिधं मन्त्रं स्मृत्वा निजगुरुं पुनः । वामतो वसुधेशेन दण्डरलं च नोदितम् ||४८६ ॥ वैरिसेना ततः सर्वा पतिता भूमिमण्डले । एक एव स्थितस्तत्र रत्नशेखरभूपतिः ||४८७|| तुरङ्गमात् समुत्तीर्य विनयानतमस्तक: । ननाम भूपतेः पादौ न हि प्रीतिर्भयं विना ॥ ४८८|| करौ च कुद्मलीकृत्य भूमिजानिं व्यजिज्ञपत् । अपराधिषु यो दण्डस्तं दण्डं कुरु मे विभो ||४८६ ॥ इति श्रुत्वा धरेशेन कृपापूरितचेतसा । सृष्ट्या सञ्चारिते दण्डे सेना सुस्थाभवत्कृता ॥४०॥ चित्रसेननरेशेन रत्नशेखर नामकः ।
गत्वा सिंहपुरद्रङ्गे स्थापितः कृत सेवकः || ४६१ ॥ आज्ञायाः पालकं कृत्वा गृहीत्वा दण्डमद्भुतम् । सञ्चचालाचलाधीशः ससैन्यः स्वपुरं प्रति ॥ ४९२ ॥
वाद्यमानस्फुरद्वाद्यश्चतुरङ्गचमूवृतः
1
४८४-४६२ ]
चित्रसेनपद्मावतीचरित्रम्