________________
५४ ]
चित्रसेनपद्मावतीचरित्रम्
[ ४७५-४८३
विज्ञापयति मद्वक्त्रान् मत्स्वामी रत्नशेखर: । नात्रा गन्तव्यमुवश स्वश्रेयो यदि वाञ्छसि || ४७५ ॥ इति दूतवचः श्रुत्वा कुपिती मंदिनीपतिः । अवध्यो भूभुजां दूतो गच्छ गच्छ ममाग्रतः || ४७६ ।। भरणनीयं स्वभूपाग्रे संनह्य त्वं स्थिरीभव | चित्रसेनः गत्वा दूतेन विज्ञप्तो रत्नशेखर भूपतिः । श्रागतश्चित्रसेनोसौ राजन् सज्जीभव द्रुतम् ॥ ४७८ || एतद्वचनमाकर्ण्य कोपप्रस्फुरिताधरः । चचाल सन्मुखं सद्यो रत्नशेखरभूमिपः ||४७६ अन्योन्यमुभयांजति सैन्ययाः किल सङ्गम ।
समायातस्त्वद्रवनिपयोधरः ||४७७ ||
योधा युद्धाङ्गणे योद्धं सावधानाः स्थिताः पुनः || ४८० ॥ रथिका रथिभिः सार्द्धं गजस्थाश्च गजस्थितैः । हयस्था हयसंस्थैश्च चक्रुर्युद्धं परस्परम् ||४८१ ॥ पत्रवाहप्रवाहेणाच्छादितं' गगनाङ्गणम् । किं श्रमाकुलचित्तानां वीराणामातपच्छिदे ||४८२ ॥ यथा विन्ध्याद्रिमध्यस्था गजा युध्यन्ति दुर्द्धराः । उभयोः सैन्ययोस्तद्वत् सञ्जातं समराङ्गणम् ||४८३ ॥
1. Z कंकपत्रप्रवा० ।