________________
-४७४ ]
चित्रसेनपद्मावतीचरित्रम्
-
-
मंहारप्रेरिते दण्डे भवेत् संहारकारणम् । मृष्टिसञ्चारिते तस्मिन् सञ्जीवेत् सकलं पुनः ॥४६६॥ मनोभिगामिपल्यत दण्डं शत्रुजयाभिधम् । इति रत्नद्वयं देव गृहाणानुगृहाण माम् ।।४६७।। इत्युक्त्वा वसुधानेतुर्विद्याधरशिरोमणिः। हेममाली ददौ भक्त्या स रत्नद्वयमुत्तमम् ॥४६८।। पल्यत रत्नदण्डञ्च समादाय धराधवः । हेममालिगुणोच्चारं विदधाति पुनः पुनः ॥४६६।। रत्नचूडः समुत्थाय प्रात्रलियंवदन्नृपम् । नाथ रूपपरावर्तगुटिकां वं गृहाण में ॥४७०।। गुटिकामर्पितां लात्वा तयोराकाशचारिणोः । विरोधञ्च निराकृत्य सन्तोषं नृपतिबंधात् ॥४७१॥ प्रभातसमये जाते द्वावपि व्योमचारिणौ । प्रीतिपूर्व स संमान्य प्रैषीन्निजपुरं प्रति ॥४७२।। नृपः सैन्ये समायातो विबोध्याशु स्वसैनिकान् । चतुरङ्गचम्युक्तो यावद् गच्छति चाग्रतः ॥४७३॥ तावत्सिहपुराधीशप्रेषितो दूत आगतः । नत्वा' विश्वम्भराधीशमवादोत् स्वामिनोदितम् ॥४७४॥
-
-
-
-
1Z तथा instead of नत्वा ।