SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५२ ] चित्रसेनपद्मावतीचरित्रम् [४५७-४६५ विनोदेन मया पृष्टा कासि त्वं कस्य वा सुता । ततः श्रुते समाचारे ज्ञातासौ गोत्रकन्यका ॥५५७।। तावत्त्वदीयहकाभिर्वयस्याः कातरा मम । कांदिशीका' द्रतं नष्टाः सिंहनादादिव द्विपाः ।।४५८॥ मया शीलव्रतं पूर्व गृहीतं गुरुमन्निधौ । अन्यथा कामिनः केपि पृच्छन्ति किं कुलादिकम् ॥४५६॥ रत्नचूडवचः श्रुत्वा चित्रसेननराधिपः । प्रशंसां कुरुते तस्य वारं वारं गुणादरः ॥४६॥ उपकारपरा धन्या दीनोद्धारबराम्तथा । परकार्यकरा धन्या धन्याः शीलधरा नराः ॥४६१॥ हेममाली नमस्कृत्य राज्ञश्चरणपङ्कजम् । इति विज्ञापयामास विनयानतमस्तकः ॥४६२।। जीवदानं धराधीश न दत्तं मम केवलम् । कुलं हेमरथस्यापि बुडदद्यांद्वतं त्वया ॥४६३॥ सद्यः प्रसादमाधाय देव मामनृणीकुरु । रत्नद्वयञ्च मत्पार्थाद् गृहाणाश्रितवत्सल ॥४६४॥ अनेकतीर्थयात्रार्थं नराधीश नभस्तले । पल्यङ्कन यथाकामगामिना गम्यतेभितः ॥४६॥ - - - - - - - - - - 1Z कादिशीका।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy