SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४४७-४५६ ] चित्रसेनपद्मावतीचरित्रम् [५१ एकाकी स स्थितश्चौरः सङ्ग्रामाय समुद्यतः॥४४७॥ क्लीवत्रासकरे युद्धे सजाते च परस्परम् । चित्रसेनधरेशेन निर्जितः पारदारिकः ॥४४८॥ स. मृत्युभयभीत: सन् समादाय मुखे तृणम् । पतिता भूपतेः पादौ पुनरेवं व्यजिज्ञपत् ।।४४६॥ नेतः कान्तिपुरेशस्य रत्नचूडाभिधः सुतः । विद्यां साधयितुं शैले गतोहं गन्धमादने ॥४५०॥ विद्यायाः साधनं कृत्वा परिवारपरावृतः। पश्यन् विश्वम्भराश्चर्यमभ्रमं च यदृच्छया ॥४५॥ हेममाली प्रियायुक्तो मिलितो मम सन्मुखम् । विलोक्य तद्वधूरूपं जातोहं कामपीडितः ॥४५२॥ मामन्यायमति मुक्त्वा विद्याधिष्ठायिका गता। ततो विगतविद्योहं जातो विह्वलमानसः॥४५३।। समीक्ष्य तदवस्थं मां हसितं मित्रमण्डलम् । विलोक्य कौतुकं कामं हास्यं कस्य न जायते ॥४५४॥ अट्टहासमाकये कुपितो हेममाल्यसौ । विरूपवचनैर्गालिं ददानो न निवर्तते ।।४५५॥ ततः कोपान्मया देव बन्धितः कीलितोप्यसौ । तत्कान्तां च समादाय स्थितोहं काननान्तरे ।।४५६॥
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy