________________
५० ]
चित्रसेन पद्मातीवचरित्रम् [ ४३८-४४६
॥ ४३८ ॥
अन्यदा सकलत्रस्य सञ्जातः सुखितस्य मे । नन्दीश्वरवर द्वीपतीर्थयात्रामनोरथः मनोरमविमानस्थः प्रियया प्रिययान्वितः । तीर्थानि प्रणमन् मार्गे यावदत्र समागतः ॥ ४३९॥ मत्पृष्ठतः समायातो मत्प्रियालुब्धमानसः । रत्नचूडाभिधो दुष्टविद्याधर भटैर्वृतः || ४४० ॥
निष्कृपः किल पापात्मा विधाय मम बन्धनम् । मल्लभां समादाय जगाम निजधाम सः ॥ ४४१ ॥ हेममालिवचः श्रुत्वा उपकारपरात्मना । व्रणरोहिणीलेपात् सज्जाङ्गः सहसा कृतः || ४४२ ॥ राज्ञश्वरणमानम्य हेममाली व्यजिज्ञपत् । मोचितोहं यथा देव तथा वालय मत्प्रियाम् ||४४३ ॥ भूपस्तद्वचनं श्रुत्वा परोपकृतितत्परः । तेन सार्द्धं विमानस्थश्च चालाचल विक्रमः || ४४४ ॥ भूपतिः कियतीं भूमिं यावद् गच्छति चाग्रतः । स्थितस्तरुतले तावद् दृष्टः पापमना रिपुः || ४४५॥ पारदारिक पापात्मन् क गमिष्यसि साम्प्रतम् । चित्रसेननरेशेन हकितश्चेति कम्पितः || ४४६ || आकस्मिकवचः श्रुत्वा सर्वे भीताः पलायिताः ।
।