SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ४२६-४३७ ] चित्रसेनपद्मावतीचरित्रम् [४६ - आक्रन्दनानुसारेण गतो यावत्कियद्भवम् । तावत्तरारधोभागेपश्यत् कमपि पूरुषम् ॥४२६॥ बद्धं निगडबन्धेन । कीलितं लोहकीलकैः । दिव्यरूपधरं दिव्यवेषालङ्कारसुन्दरम् ॥४३०॥ चित्रसेननराधीशः पप्रच्छेति नरं प्रति । कस्त्वं कस्य सुतः काख्यावस्था ते कथमीदृशी ।।४३१।। ततः स पुरुषः प्राह पीडया पीडितोपि सन् । ममाश्चर्यकरी वातौ शृणु वीरशिरोमणे ॥४३२।। बन्धनाच्छोटय त्वं मां कीलकांश्च निराकुरु । कथयामि स्ववृत्तान्तं निःशल्यः सन् भवत्पुरः॥४३३॥ तथा कृते नरः प्राह वैताढ्याभिधपर्वते । उत्तरश्रेणिशृङ्गारं नाना हेमपुरं पुरम् ॥४३४॥ तत्रास्ति विश्वविख्यातो विद्याधरशिरोमणिः । दानादिगुणसम्पूर्णो राजा हेमरथाभिधः ॥४३५ । तत्प्रिया हेममालास्ति हेममालेव निर्मला । तत्कुक्षिसम्भवो नाना हेममालीत्यहं सुतः ॥४३६॥ हेमचूलाप्रियायुक्तः स्थितः सुन्दरमन्दिरे । सारसंसारसौख्यानि विलसामि यथारुचि ॥४३७॥ 1 A पुरु०।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy