________________
१५६-१६४ ]
चित्रसेनपद्मावतीचरित्रम्
[१६
-
-
गत्वा चित्रकरोपान्ते पटश्चित्रापितः पटुः ॥१५॥ आदाय तं पटं पाणौ गुप्तवेषो भ्रमन् पुरे । चारुचातुर्यगीताद्यैररञ्ज नगरीजनान् ॥१५७॥ श्रुत्वा तद्भाग्यसौभाग्यचातुर्यादिकलां जनात् । दर्शनोत्कण्ठिता तस्य जाता पद्मावती कनी ॥१५८।। पूर्वप्रेमानुबन्धेन समाकार्य निजान्तिके ।
दर्शनाचित्रसेनम्य साता सानुरागिणी ॥१५॥ यत:
लोचनान्येव जानन्ति सम्बन्धं पूर्वजन्मनः । यतो हर्ष प्रिय दृष्टे वहन्ते चाप्रिये रुषम् ॥१६॥ साश्चर्यमानसाः सख्यो विलोकन्ते परस्परम् । अनेन पुरुषेणास्या नरद्वेषो निराकृतः ॥१६॥ तत्करस्थपटेपश्यत् कन्या काननमुत्तमम् । नालिकेरकदल्यादितरुमण्डलमण्डितम् ॥१६२॥ अनेकपङ्कजाकीर्ण कमनीयं सरस्तथा । वटवृक्षश्च सापत्यहंसहंसीमनोहरम् ॥१६३|| तत्र दावानले लग्ने हंसोगानीरहेतवे । बालरक्षाकृते हंसी स्थिता दावानलाकुला ॥१६॥ शीघ्रं पानीयमादाय यावदायाति पादपे ।