________________
२०]
चित्रसेनपद्मावतीचरित्रम्
[१६५-१७३
तावद्वालकसंयुक्ता दग्धा हंसी दवाग्निना' १६५॥ दृष्ट्वा दवाग्निना' दग्धां प्रियां बालोपरिस्थिताम् । दुःखपूराकुलो हंसो हृदयस्फोटतो मृतः ॥१६६।। एवं चित्रपटं दृष्ट्वा जातजातिस्मृतिस्मृतिः। । मूर्च्छयाकुलचित्ता सा पतिता पृथिवीतले ॥१६७॥ शीतोपचारतः सुस्थीभूता चिन्तयतीति सा । मद्वियोगातुरस्वान्तो हा हा हंसो मृतः किमु ॥१६८॥ पुरुषेषु मुधा द्वेषः प्रचक्रे मूढया मया । एष चित्रधरो धीरी जीवो हंसस्य नान्यथा ॥१६६।। सखीभिः सार्द्धमित्येता वाती यावत्करोत्यसौ । कुत्रापि कुमरस्तावद् गतो मित्रसमन्वितः ॥१७॥ क्षणान्तरे कुमारी तं यावत् पश्यति नाग्रतः । नरश्चित्रधरं तावत्तद्वियोगाद् रुरोद सा ॥१७॥ क्व गतश्चित्तचौरोसौ ममोषित्वा च मानसे । धूर्तेन धूर्तिता बाढं हा सखि त्वं तमानय ॥१७२॥ 'वसिऊण मुज्झहियए जीवं गहिरण कत्थ चलिश्रो सि । सहवासघरविडंबग गंगंमि गओन सुज्झहसि ॥१७३॥ एवञ्च विलपन्ती सा भर्तुःखेन दु:खिता। 1 2 दावा०। 2A adds यतः before verse 173.