________________
१८
चित्रसेनपद्मावतीचरित्रम्
[१४४-१५५
-
अध मे सफलं जन्म सफलं मेद्य जीवितम् । अद्य मे सफला यात्रा यजातं तव दर्शनम् ॥१४७॥ विनयावर्जितो यक्षो हटोवोचदिदं वचः। कुमार मत्प्रसादेन संग्रामे विजयोस्तु ते ॥१४८॥ राजराज मुदा नरखा बरं लब्ध्वा वराशयः । चित्रसेनकुमारोथ समागान्मित्रसन्निधौ ॥१४॥ वीरसेनसुतः साररत्नसारसुहृत्पुरः । बरलब्ध्यादिकं सर्व वृत्तान्तञ्च न्यवेदयत् ॥१५॥ पूर्णा यक्षपतेर्यात्रा विभाता च विभावरी । कुमारो मन्त्रिपुत्रश्च प्रापतुस्तौ चतुष्पथें ॥१५१॥ तस्मिन्नवसरे तत्र नृपः पद्मरथामिधः । पुत्रीविवाहमुद्दिश्य घोषणामित्यकारयत् ॥१५२।। यः कोपि पुरुषद्वेष सुतायाः स्फेटयेन्नरः । अर्धराज्यं सुतां तस्मै नि:सन्देहं ददाम्यहम् ॥१५३।। प्राकण्यं घोषणामेवं हर्षपूरितमानसः । रतसारमुखं दृष्ट्वा कुमार इदमब्रवीत् ॥१५॥ पान्छितार्था हि सिध्यन्ति प्रायः पुण्योदये नृणाम् । मित्र साहाय्यमेतत्ते तत्सुवर्णस्य सौरभम् ॥१५॥ एवमुक्त्वा कुमारेण स्मृत्वा तद्हानिनो वचा ।