SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ३ समन्वयाधिकरणम् । ( अ. १ पा. १ . इति भगवता जीवस्यैवाविद्यावत्त्वप्रतिपादनात् । तस्मान्न्यायोपबृंहितसर्ववेदान्तप्रतिपादितसर्वधर्मव । तस्य श्रवणमनननिदिध्यासनैरन्तरगैः शमदमादिभिश्च बहिरङ्गैरतिशुद्धे चित्ते स्वयमेवाविर्भूतस्य स्वप्रकाशस्य सायुज्यं परमपुरुषार्थः । तस्मात्सर्वै वेदान्ताः स्वार्थ एव युक्तार्था ५ इति न्यायैर्वक्तव्यत्वाद्ब्रह्मणः समवायित्वाय समन्वयसूत्रं वक्तव्यम् ॥ १।१।३॥ ॥ इति त्रिसूत्री ॥ १७ ४ ईक्षत्यधिकरणम् । एवं ब्रह्मजिज्ञासां प्रतिज्ञाय किंलक्षणकं ब्रह्मेत्याकाङ्गायां जन्मादिसूत्रद्वयेन वेदप्रमाणकजगत्कर्तृ समवायि चेत्युक्तम् । एवं त्रिसूत्र्या १० जिज्ञासालक्षणविचारकर्तव्यता सिद्धा । तत्र ब्रह्मणि चतुर्धा विचारः स्वरूपसाधनफलप्रतिपादकानि वेदान्तवाक्यानि विविधानि मतान्तरनिराकारणं च । तत्र स्वरूपे विचारिते मतान्तरनिरासव्यतिरेकेण साधनफलयोरनुपयोगात् अतः प्रथमं स्वरूपनिर्णयः । तदनु मतान्तरनिरास: । तदनु साधनानि फलं चेति । तत्र १५ प्रथमेध्याये स्वरूपवाक्यानि विचार्यते । तानि द्विविधानि । संदिग्धानि निःसंदिग्धानि च । तत्र निःसंदिग्धानां निर्णयो न वक्तव्यः । संदिग्धानि पुनश्चतुर्विधानि । कार्यप्रतिपादकानि । अन्तर्याभिप्रतिपादकानि । उपास्यरूपप्रतिपादकानि । प्रकीर्णकानि चेति । तत्र प्रथमपादे कार्यवाक्यानां निर्णय उच्यते । सच्चिदानन्दरूपेणाकाशवायुतेजोवाचकवाक्यानि षड्२० विधान्यपि निर्णीयन्ते । अन्यत्रान्यवाचकान्यपि वेदान्तेषु भगवद्वाकानीति । तत्र लक्षणविचार एव सद्रपाणां वाचकता निर्णीता | चिद्रूपस्य ज्ञानप्रधानस्य निर्णयार्थमीक्षत्यधिकरणमारभ्यते सप्तभिः सूत्रैः । सप्त द्वारत्वाज्ज्ञानस्य । तत्रैवं संदेहः । ब्रह्मणः स्वप्रकाशत्वेन सर्वप्रमाणाविषयत्वात्२५ यतो वाचो निवर्तन्त्र ( ते २-४ ) इति श्रुतेश्व विचारः कर्तुं न 11- A and B rend सर्ववेदान्त for वेदान्त | [ अणमाध्य |
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy