________________
अ. १ पा. १ सू. 5 अणुभाष्यम् । नन्वेवमेवास्तु अपवादार्थत्वात् रज्जुसर्पवदयुक्तार्थकथनेपि न दोषः । सर्वं समाप्नोषि ततोसि सर्वः ( भ. गी. ११-४० ) इति स्मृतेश्चति चेत् । मैवम् । तथा सति पाषण्डित्वं स्यात् । एतादृशशास्त्रार्थाङ्गीकर्तुरासुरेषु भगवता गणितत्वात् ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥
(भ. गी. १६-८ ) इति शास्त्रानर्थक्यं च । सर्वं समाप्नोषीत्यप्यसंगतं स्यात् । वस्तुपरिच्छेदात् । न हि वेदो निःप्रपञ्चरूपकथनमुक्त्वा स्वोक्तं जगत्कर्तृत्वं निषेधति । १० तस्मादध्यारोपापवादपरत्वेन व्याख्यातृभिर्वेदान्तास्तिलापः कृता इति मन्या
महे । सर्ववाक्यार्थबाधात् । यथा निर्दोषपूर्णगुणविग्रहता भवति तथापरिष्टाद्वक्ष्यामः ।
ननु पुरुषार्थानि शास्त्राणि । इदं च शास्त्रं माक्षरूपपुरुषार्थसाधकम् । मोक्षश्चाविद्यानिवृत्तिरूप इति युक्तम् । अविद्या चाज्ञानं ज्ञानेनैव १५ नश्यति । ततो ज्ञानोपयोगित्वेन व्याख्यातव्य वेदान्तध्यारोपापवादन्यतिरेकेण व्याख्यानमयुक्तम् । अता यथाकथंचियाख्यानपि पुरुषार्थसिद्धन कोपि दोष इति चेत् । न । पुरुषार्थस्य शास्त्रार्थस्य वा स्वरूपं शास्त्रकसमधिगम्यं न स्वबुद्धिपरिकल्पितम्। अत: स्वबुध्द्या शास्त्रार्थं परिकल्प्य तत्र वेदं योजयन्तो महासाहसिकाः सद्भिरुपेक्ष्याः । पुरुषार्थः पुनर्यथा २० वेदान्तेष्ववगतः। ब्रह्म वेद ब्रह्मैव भवति (मुण्ड. ३-२-९)। ब्रह्मविदाप्नोति
परम् । ( तै. २-१) न स पुनरावर्तते । ( छां. ८-१५-१ ) ततो मा तत्त्वतो ज्ञात्वा विशते तदनन्तरम् । ( भ. गी. १८-५५) अनावृत्तिः शब्दादनावृत्तिः शब्दात् (ब्र. सू. ४-४-२२ ) इत्येवमादिभिः श्रुति
स्मृतिन्यायैर्बह्मप्राप्तेरेव पुरुषार्थत्वम् । ब्रह्म च पुनर्न जीवस्यात्ममात्रम् । २५ अज्ञानवद्व।।
एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोस्याविद्ययानादिर्विद्यया च तथेतरः ॥ १२ ॥