________________
समन्वयाधिकरणम् । [ अ. १ पा. १ सू. 3
संदेहनिराकरणद्वारा । तत्कथं सिद्धवद्धेतुत्वेन निर्देशः । अग्रिमवैयर्थ्य च स्यात् । न च प्रतिज्ञागर्भितहेतुत्वम् । अनुपयोगात् । गौणमुख्यभावे परं विवादः । न च येन रूपेण समन्वयो मतान्तरस्थैर्विचारितस्तथाग्रे सूत्रेषु निर्णयोस्ति । शास्त्रारम्भस्तु प्रथमसूत्र एव समर्थितः । तस्मा५ त्समवायिकारणत्वमेवानेन सूत्रेण सिद्धम् ।
१५
नन् कारणत्वमेवास्तु ब्रह्मणः किं समवायिकारणत्वेन । वितत्वं च स्यात् । अनर्थरूपत्वेन कार्यस्यायुक्तता च । तस्मादनारम्भणीयमेवैतत्सूत्रमिति चेत् । मैवम् । सर्वोपनिषत्समाधानार्थं प्रवृत्तः सूत्रकारः । तद्यदि ब्रह्मणः समवायित्वं न ब्रूयात् । भूयानुपनिषद्भागो व्यर्थः १० स्यात् । इदं सर्वं यद्यमात्मा । (बृ. २४/५ - ४-५-७ ) आत्मैवेदं सर्वं (छां. ७।२५।२) । स सर्वं भवति । ब्रह्म तं परादात् (बृ. २।४।६) इत्यादि । स आत्मानः स्वयमकुरुत ( तै. २२७ ) । एकमेवाद्वितीयम् (छां. ६/२/१ ) | वाचारम्भणं विकार : (छां. ६ | १ | ४ ) इत्यादि । एवमादीनि वाक्यानि स्वार्थे बाधितानि भवेयुः । नन्वेवं निःसंदिग्धत्वात्कथं सूत्रप्रवृत्तिः । उच्यते । अस्थूलादिवाक्यान्यपि सन्ति सर्वत्र प्रपञ्चतद्धर्मवैलक्षण्यप्रतिपादकानि । ततान्योन्यविरोधेनैकस्य मुख्यार्थबाधो वक्तव्यः । तत्र स्वरूपापेक्षया कार्यस्य गौणत्वात् प्रपञ्चरूपप्रतिपादकानामेव कश्चित्कल्पयेत् । तन्मा भूदिति जन्मादिसूत्रवत्समन्वयसूत्रमपि सूत्रितवान् । तथा च अस्थूलादिगुणयुक्त एव । अविक्रियमाण एव । आत्मानं करोतीति वेदान्तार्थः संगतो भवति । विरुद्धसर्वधर्माश्रयत्वं तु ब्रह्मणो भूषणाय ।
१५
२०
किंच । अन्यपदार्थसृष्टौ वैषम्यनैर्घुण्ये स्याताम् । कर्माधनित्वै त्वनीशता । तत: कर्तृत्वमपि भज्येत । ततः सर्वमाहात्म्यनाश एव स्यात् ।
1-S reads सिद्धत्वेन हेतुर्निर्दिष्ट : for सिद्धवद्धेतुत्वेन निर्देशः । 11- A reads योन्यत्रात्मनो ब्रह्म वेद after परादात् ।
५ अत्रान्ये भाष्यकारास्तदात्मानमिति पठन्ति ।