________________
अ. ५ पा. १ भू..
अणुभाष्यम् ।
प्रवर्तकन्तु सर्वत्र सर्वात्मा हरिरेव हि । यज्ञ एव हि पूर्वत्र बोध्यते स्वर्गसिद्धये ॥ १० ॥ सिद्ध एव हि सर्वत्र वेदार्थो वेदवादिनाम् । मन्त्राणां कर्मणां चैव दर्शनश्रवणाच्छ्रता । कृतिश्च सिद्धतुल्यत्वं वेदः स्वार्थे घ संमतः ॥ ११ ॥
प्रजापतिरकामयत प्रजायेयेति स एतदग्निहोत्रं मिथुनमपश्यत् । प्रजापतिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासी चोक्थ्यं चामावास्यां चातिरात्रं च तानुदमिमीत यावदग्निहोत्रमासीत्तावानग्निष्टोमः ( तै. सं. १) इत्यादि । न ह्युपाख्यानानां मिथ्यार्थत्वं बुद्धजन्मनः पुरोक्तं युक्तं वा । तथा सति वेदानामप्रामाण्यमेव स्यात् । मिथ्योपाख्यानप्रतिपादकलोकवत् । तस्मात् पूर्वमीमांसानभिज्ञाः क्रियापरत्वं सर्वस्यापि वेदस्य वदन्तो मूर्खा एव । उत्तरवादिनोपि पूर्वाज्ञानमङ्गीकृत्य पूर्वानुपयोगित्वं वेदस्य ब्रह्मज्ञानस्य वदन्ता वेदानभिज्ञाः । यदेव विद्यया करोति श्रद्धयोपनिषदा वा तदेव वीर्यवत्तरं भवति (छां. १११११०) इत्युपनिषज्ज्ञानस्य श्रुतिसिद्वैव कारणता । न च बाधितत्वात्त्यज्यत इति वाच्यम् । ब्रह्मात्मज्ञानवत एव वसिष्ठादेर्यज्ञाधिकारात् । न चैवं किमनेनेति वाच्यम् । इत्थंभूतत्वाद्यज्ञस्य । किंच कर्मफलवब्रह्मफलस्यापि लौकिकत्वात्-य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति । प्रजया पशुभिब्रह्मवर्चसेन । महान्की. (तै. ३।६) इति । अत्यन्ताविद्यावतो यज्ञानधिकारात्तन्निषेधार्थं ज्ञानमुपयुज्यते । न च देहाध्यासस्य कारणत्वम् । ब्रह्मार्पणं ब्रह्महविः ( भ. गी. ४।२४ ) इत्यादिस्मृतेः । तस्मादन्योन्योपयोगित्वे न कोपि दोषः । क्रियाज्ञानयोः स्वातन्त्र्येण पुरुषार्थसिद्ध्यर्थं भिन्नतया शास्त्रप्रवृत्तिः ।
किंच । वेदान्तवाक्यानामस्मिन् शास्त्रे समन्वय एव प्रतिपाद्यते
२०
-S reads सन्मत: for संमतः। 12-A reads पूर्वज्ञानं for पूर्वाज्ञानं ।